________________
इवाब्रह्मण्यपि कस्यचित्प्रवृत्तरुपेयेच्छातुल्योपायेच्छापूर्वकत्वेन रागद्वेषानुगतत्वाभावादुमयसांकर्यमिति वाच्यं, संयमजीविताधुपेयेच्छया प्राक् तत्र प्रवृत्तावप्यनन्तरं विषयस्वाभाव्येन विषयेच्छाया उत्कटत्वादनुत्कटत्वाचोपेयेच्छायास्तत्र रागद्वेषानुगतत्वानपायात्, अत एव तत्र प्रायश्चित्तयोग्यता, तदाह- "संजमजीवितहेउं कुसलेणालंबणेण वण्णेणं । ___ कयमाणे तु अकिवं हाणीवुडीव पच्छित्ते ॥"
यत्त्वत्रापि कुशलालम्बनेन प्रवर्त्तमानस्य निर्दोषत्वं गीतार्थस्य गीयते तत्संयमजीविताधपेयेच्छानुगतत्वेनोत्कटदोषाभाक मभिप्रेत्य, न तु सर्वथा तत्र दोषाभावोऽस्ति, विषयस्वाभाव्यस्य बलवत्त्वात्, तदुक्तम्
"जइ सव्वसो अभावो रागादीणं हवेज णिडोसो ति५७॥" ___ अत एवाह-कल्पे त्वासेव्यमाने आराधना ज्ञानादीनां भवति, दर्पण तु तेषामेव विराधना भवति । अथ गीतार्थादिपदसवेऽकृत्यसेवापि कल्पिकैव, तदुक्तम्
"गीयत्यो जयणाए कडजोगी कारणंमि णिहोसो। एगेसिं गीय कडो अरत्त दुठो अ जयणाए ॥"
अस्या अर्थ:- गीतार्थों यतनयाऽल्पतरापराधस्थानप्रतिसेवारूपया कृतयोगी तपाकर्मणि कृताभ्यासः कारणे ज्ञानादौ सेवत एष प्रथमो भंगः। अत्र च प्रतिसेवमानः कल्पिकप्रतिसेवावानिति कृत्वा निर्दोषः, गीतार्थों यतनया कृतयोगी निष्कारणे एष द्वितीयो भंगः। अत्र स दोषः, एवं चतुर्णी पदानां षोडशभंगाः कर्त्तव्याः, एकेषां पुनराचार्याणामिह पश्चपदानि भवन्ति, गीतार्थः . ५७ यदि सर्वशोऽभावो रागादीनां भवेनिर्दोष इति ॥