________________
वतो जीवस्य तस्य सुज्ञानत्वात् , कदाचित् स्खलनायामप्याशयविशुद्धया दोषाभावात्, अन्यथा चारित्रोच्छेदापत्तेः । तदुक्तम्
"मुत्ते तह पडिबंधा चरणवओ न खलु दुल्लहं एयं । न वि छलणाइ वि दोसो एवं परिणामसुद्धीए ५६ ॥१२९॥
ननु विरुद्धद्रव्यादिकमेव यतनया सेव्यमानं यदि सानुबन्धं संपद्यते तदा निषेधविधिविरोध इत्याशक्कायामाह
गंतेणाणुण्णा अस्थि णिसेहो वि कोवि विसयंमि । कप्पिअपडिसेवाए होइ णिसिद्धमणुण्णायं ॥१३०॥
नैकान्तेन सर्वस्य सर्वव्याघवच्छेदेनैव, अनुज्ञा शुद्धभक्तपानादिग्रहणविधिः, विषये आचारविषये, नवा कोऽपि निषेधोऽप्यस्ति, यतः कल्पिकप्रतिसेवायां दुर्भिक्षादौ कृतयोगिनो गीताथस्य परिमिताशुद्धामादिग्रहणरूपायां, निषिद्धमप्यनुज्ञातं भवति, तदानीं तत्र तत्कृतिसाध्यत्वबलवदनिष्टाननुबन्धित्वेष्टसाधनत्वाबाघात् ॥१३०॥ • अथ कल्पिकप्रतिसेवायाः प्रतियोगिग्रहेण मुग्रहत्वादपिककल्पिकप्रतिसेवयोर्लक्षणमाह
रागहोसाणुगया तु दपिआ कप्पिआ तु तदभावे । आराहणा उ कप्पे विराहणा होइ दप्पेणं ॥१३॥
रागद्वषाभ्यां स्वप्रवृत्तिमूलभूताभ्यामनुगता सहिता या प्रतिसेवना सा दपिका, या तु कल्पिका सा तदभावाद् रागद्वेषाभावात्। न च स्वार्तध्यानातिरेकादिनिरोधार्यमेव प्रलम्बादिग्रहण ५६ सूत्रे तथा प्रतिबन्धाधरणवतो न खलु दुर्लभमेतत् ।
नापि छलनाधपि दोषः एवं परिणाममुखया ॥