SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३३ माया असश्वेन निवर्तयितुमशक्यत्वादिति चेन, तत्राप्यग्रिमासप्रतिविमिवृत्तेस्तत्कारणविघटन रूपाया: संभवात्, अपवादयतनायामप्यग्रिमानाचारबीजक्षुद्विशेषादिकारणविघटनोपपत्तेः, अपवादयशवाया एवं वाऽस्त्वेतल्लक्षणम् ॥१२७॥ ननु द्रव्याद्यापदि यवना ज्ञावादिगुणबीजमित्युक्ता न च छद्मस्पेन यतनाविषयद्रव्यादि ज्ञातुं शक्यमित्याशङ्कायामाह - ण व एअं दुष्णेयं जं एअं सानुबंधमिणमण्णं । जं सुअपरिकम्मिअमईगीयत्थंजणानुमेयमिमं ॥ १२८ ॥ न चैतद्दुर्ज्ञेयं यदेतद्विरुद्धद्रव्यादिकमपि सेव्यमानं, सानुबन्धमव्यवच्छिभगुणप्रवाहनिमित्तं इदं चान्यभिरनुबन्धमुच्छिगोतरोत्तरगुणप्रवाहफलमित्यर्थः, यद् यस्मात् श्रुतपरिकर्मितमतेः श्रुताभ्यासीपतिष्ठमानैतद्द्व्याप्त्यादिविशिष्टलिंगकस्य गीतार्थजनस्यानुमेयमेतत्, प्रकृतद्रव्याद्यासेवनस्य सानुबन्धफलकत्वादि । यथाहि ज्योतिवारविशारदः सुभिक्षादिकं निपुणवैद्यश्च व्याधिविपाकादिकं शास्त्राज्जानाति तथा गीतार्थोऽपि जानीयादेव शास्त्राद् यतनाविषयमित्यर्थः ॥ १२८ ॥ जह एसणिज्जनाणे तिविहनिमित्तोवओगसुद्धीए । तह एयंपि ण दुलहमुवउत्ताणं सया सुते ॥ १२९ ॥ अपि च एषणीयज्ञानं भक्तपानादिकल्प्यताज्ञानं, यथा, त्रिविधनिमित्तात् कायिकवाचिकमानसलक्षणात् या उपयोग शुद्धिरुपयोगनिर्मलता तया तथा एतदपि यतनाविषयविज्ञानं, न दुर्लभं न दुष्प्रापं सदा निरन्तरं, सूत्रे जिनवचने, उपयुक्तानां यथावदत्तावधानानाम् । ननु सर्वत्र धर्मार्थिनो लोकस्य तदर्थपाकादिप्रवृत्तावनेषणीयबाहुल्येनैषणीयानेषणीयविवेकस्य दुःशकत्वात् कथमेषणीयज्ञानमत्र दृष्टान्तत्वेनोपन्यस्तमिति चेत्, न, चरण
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy