________________
.. १३१ नन्वेवमशिष्टगर्हणेन किं भगवतः कलंकसम्पर्कोऽपि भवति नेत्याहण य एवं सो देवो कलंकिओ होइ दोसलेसेण । सूरो परामुसिज्जइ णाभिमुहुक्खित्तधूलीहिं॥१२३॥
न चैवं बाह्यानां गर्हणेन, स देवः कलंकितो भवति दोषलेशेन, अपिगम्यते, एतदेव प्रतिवस्तूपमया द्रढयति, परः सूर्यः, न परामृश्यते चौरपारदारिकादिभिरभिमुखोसिमाभिधूलिभिः, यथा हि सूर्याभिमुखं प्रक्षिप्ता धूलिः स्वलोचनयोरेवव्यथायै भवति न तु सूर्यपराभवाय, एवं भगवतोऽपि कलंकदानं न भगवतो दोषाय किन्तु स्वस्यैवानन्तसंसारार्जनायेति भावः॥१२३॥ ____ अत्र स्वस्याभिनिवेशशङ्का परिहरबाहण हुअस्थि अभिणिवेसो लेसेण वि अह्ममेत्य विसयंमि। तहवि भणिमोणतीरइ जंजिणमयमनहा काउं॥१२४॥
नास्त्यभिनिवेशोऽसद्ग्रहलक्षणो लेशेनाप्यत्रार्येऽस्माकम् , तथापि भणामो यज्जिनमतन्यथा कत्तु नःशक्यते, जिनमतं चात्रेत्यमेवास्माकं व्यवस्थितमाभाति, बहुश्रुताः पुनरत्र प्रमाणम् ॥१२४॥
अथैतदुपसंहरबाहएवं खीणे मोहे अकरणणियमस्स होइ परिनिट्ठा। एयस्स य अब्भासो उववज्जइ भावसाहणं ॥१२५॥ ____एवमुक्तप्रकारेण, अकरणनियमस्य, परिनिष्ठा पूर्णता, क्षीणे मोहे सति, भवति एतस्य चाभ्यासो भावसाधूनामुपपद्यते, आभ्यासिकभावानामभ्यासस्यैव पूर्णतोपायत्वात् ॥१२५॥