________________
जं खलु पञ्चक्खायं तभंगो गरहणिजओ होइ । सो णत्थि तस्स अण्णं वज्झा पुण किं ण गरहंति ॥१२१॥
यत् खलु निश्चये प्रत्याख्यातं, तभंगो गर्हणीयको भवति शिष्टानां, स प्रत्याख्यातभंगः, तस्य क्षीणमोहस्य, नास्ति भावामंगेन द्रव्यादिभंगेऽरक्तद्विष्टस्य प्रत्याख्यानभंगेऽभ्युपगम्यमाने धर्मोपकरणधारिणश्चारित्रिणो द्रव्यादिचतुष्टयशुद्धपरिग्रहप्रत्याख्यानानुपपत्तिरिति वदतो दिगम्बरस्य निराकरणानुपपत्तेः, निराकतश्चायं द्रव्यादिप्रकारात्यागेन प्रत्याख्यानशुद्धिसमर्थनाद्विशेषावश्यकादौ, एवमिहापि द्रव्यादिप्रकारैः प्रमादयोगत्यागात्र प्रत्याख्यानभंगलेशोऽपीति किं न विचारयन्ति सुहृदः । अन्त्यविकल्पे प्राह-बायाः पुनरशिष्टाः पुनः, तस्य क्षीणमोहस्य, अन्यत् कि न गर्हन्ति, अप्रयोजकं तद्हणमिति भावः ॥१२१॥ वाद्याः किमन्यद्ईन्तीत्याहण सयंभू स मणूसो इय अवमण्णंति माहणा देवं। इहि पिण कयकिच्चो दिअंबरा कवलभोइत्ति ॥१२२॥
स भवदभिमतो वीतरागः, न स्वयंभूर्नानादिसिद्धसर्वज्ञः, किन्तु मनुष्यः, तथा चास्मदादीमातिशेत इति भावः, इत्येवं प्रकारेण , ब्राह्मणा नैयायिकादयः, देवं भगवन्तं, अवमन्यन्तेऽवजानते । तथा कवलभोजी कवलाहारी भवदभिप्रेतः सर्वज्ञः, इदानीमपि अभिमन्यमानसर्वज्ञताकालेऽपि, न कृतकृत्यो न परिनिष्ठितार्थः, स्वकीयस्यैव क्षुदादिदुःखस्यानाशात् परकीयतमाशने सामर्थ्याभावादिति दिगम्बरा देवमवमन्यन्ते । एवमन्येऽप्यन्यथावादिनः स्वस्वाभिप्रेतार्थानुपदेशिनं तमवमन्यन्त इति ॥१२२॥