________________
१२५
पयुक्तस्य तु संपत्तिः प्राणव्यपरोपणोपधानरूपा सूत्रेऽफला कर्मबन्धफलाजननी प्रज्ञप्ता । तथा च सूत्रम् -
“उच्चालिअंमि पाए इरियासमियस्स संकमठ्ठाए । वावज्जेज कुलिंगी मरेज्ज तं जोगमासज्ज ३८ ॥ ण हु तस्स तणिमित्तो बंधो मुहुमो वि देसिओ समए । अणवज्जो उवओगेण सव्वभावेण सो जम्हा३९ ॥" न च यस्मिन् सति यदपकर्षो नास्ति तनिवृत्तौ तदुत्कर्षो युज्यते, घटस्येव पटनिवृत्तौ । अपि च द्रव्यपरिणामत्यागोऽपि तस्य कथं श्रद्धेयः, हिंसादिसत्त्व एव रागादितीव्रमन्दताज्ञाताज्ञातभान्राधिकरणवीर्यनानात्वात्, कर्मबन्धावन्धनानात्वस्य तन्त्रे प्रतिपादनात् । तथा च कल्पभाष्यम्
" तिब्वे मंदे णायमणार भावाहिकरणविरिए अ । जह दीसति नाणत्तं तह जाणसु कम्मबंधे वि४० ॥" " तिब्वेहिं होइ तिब्बो रागादीरहि उवचओ कम्मे । मंदेहि होइ मंदो मज्झिमपरिणामओ मज्झो ४१ ॥ " जाणं करेइ एको हिंसमजाणमपरो अविरतो अ । तस्थ वि बंधविसेसो महंतरं देसिओ समए ४२ ॥
३८ उच्चालिते पादे ईर्यासमितस्य संक्रमार्थाय । व्यापात कुलिंगी म्रियेत तद्योगमासाद्य ॥
३९ न खलु तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये । अनवद्य उपयोगेन सर्वभावेन स यस्मात् ४० तीव्रो मन्दो ज्ञाताज्ञातयोर्भावाधिकरणवीर्येषु च । यथा दृश्यते नानात्वं तथा जानीहि कर्म बन्धेऽपि ॥ ४९ तीवैर्भवति तीव्रा रागादिभिरूपचयः कर्मण । मन्देर्भवति मन्दो मध्यमपरिणामतो मध्यः ॥ ४२ जानन्करोत्येको हिंसामजान नपरोऽविरतश्च ।
तथापि बन्धविशेषो महदन्तरो देशितः समये ॥