________________
समितस्येर्यासमितावुपयुक्तस्य, याऽऽहत्य कदाचिदपि हिंसा भवेत् , सा द्रव्यतो हिंसा, इयं च प्रमादयोगाभावात्तत्त्वतोऽहिंसैव मन्तव्या । प्रमत्तयोगात् प्राणव्यपरोपणं हिंसेति वचनाद, भावेन भावतो या हिंसा न तु द्रव्यतः साऽसंयतस्य प्राणातिपातादेरनिवृत्तस्य, उपलक्षणत्वात् संयतस्य वाऽनुपयुक्तगमनादि कुर्वतः यानपि सत्त्वानसौ सदैव न हन्ति तानप्याश्रित्य मन्तव्या। .
"जे बाविज्जंती :णियमा तेर्सि चिय हिंसओ सो उ३७।" इति वचनात् । यदा तु तस्यैव प्राणव्यपरोपणसंप्राप्तिर्भवति तदा सा द्रव्यतो भावतश्च हिंसा प्रतिपत्तव्या, यः पुनरात्मना चेत प्रणिधानेन शुद्ध उपयुक्तगमनागमनादिक्रियाकारीत्यर्थः, तस्य यदा वधेन प्राणव्यपरापेणेन सह योगः सम्बन्धो न भवति, तदा द्विधापि द्रव्यतो भावतोऽपि च हिंसा न भवतीति भावः। तदेवं भगवत्प्रणीतप्रवचने हिंसाविषयाश्चत्वारो भंगा उपवर्ण्यन्ते, अत्र चाघमंगे हिंसायां व्याप्रियमाणकाययोगेऽपि भावत उपयुक्ततया भगवद्धिरहिंसक एवोक्तः, ततो यदुक्तं भवता वस्त्रच्छेदनव्यापारं कुर्वतो हिंसा भवतीति तत्प्रवचनरहस्यानभिज्ञतासूचकमिति ॥११६॥
ननु यद्येवमप्रमत्तादीनां सयोगिकेवलिपर्यन्तानां योगमात्रेण न हिंसा तदा गर्हणीयप्रवृत्तिप्रतिपक्षोऽकरणनियम एतेषु सर्वेष्वविशेषेणैवोच्यतां, इत्थं चात्र क्षीणमोहादिरेव मुनिरुपदेशपदवृत्यादो कथं शृंगवाहिकया गृहीत इत्याशङ्कायामाह
३७ ये भ्यापायन्ते नियमावेषामेव हिंसक सतु॥