SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ द्रष्टव्यम् । दृष्टान्तमाह-'हियाय सस्संमि व सस्सियस्सत्ति' शस्येन चरति शास्यिकस्तस्य यथा तद्विषयं परिकर्मणं नंदिणनादिकं हिताय भवति तथेदमपि भाण्डपरिकर्मणम् । तथा चोक्तम् "यद्वत् शस्यहितार्थ शस्याकीर्णेऽपि विचरतः क्षेत्रे। या भवति शस्यपीडा यनवतः साल्पदोषाय ॥ तद्वज्जीवहितार्थ जीवाकीर्णेऽपि विचरतो लोके । या भवति जीवपीडा यनवतः साल्पदोषाय ॥" किञ्च... अप्पेव सिद्धं तमजाणमाणो तं हिंसयं भाससि योगवंत । दग्वेण भावेण य संविभत्ता चत्तारि भंगा खलु हिंसगते॥" - अपीत्यभ्युञ्चये-अस्त्यन्यदपि वक्तव्यमिति भावः। यदेवं योगवन्तं वस्त्रच्छेदनादिव्यापारवन्तं जीवं हिंसकं त्वं भाषसे, तत् निश्चीयते सम्यकसिद्धान्तमजानान एवं प्रलपसि । नहि सिद्धान्ते योगमात्रप्रत्ययादेव हिंसोपवर्ण्यतेऽप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगवतामपि तदभावात् । कथं तर्हि सा प्रवचने प्ररूप्यत इत्याह-द्रव्येण मावेन च, संविभक्ताश्चत्वारो भंगाः खलु हिंसकत्वे भवन्ति । तथाहि-द्रव्यतो नामैका हिंसा न भावतः, भावतो नामैका हिंसा न द्रव्यतः, एका द्रव्यतोऽपि भावतोऽपि एका न द्रव्यतो नापि भावतः । अयैषामेव यथाक्रमं भावनां कुर्ववाह आहच्च हिंसा समिअस्स जा उ सा दव्वओ होइ ण भाषतो उ। भावेण हिंसा तु असंजतस्स जेवावि सत्ते ण सदा वधेति ॥" "संपत्ति तस्सेव सदा भविज्जा सा दव्वहिंसा खलु भावको । असत्यमुद्धस्स जहा ण होज्जा वंधेण जोगो दुहतो व हिंसा॥"
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy