________________
"आरंभमिठो जइ आसवाय गुती य सेआय तहा नु साडू । णो फंद वारेहि व छिज्जमाणं पतिण्णहाणी व अतोण्यहा ते ॥" ____आरंभमिट्ठोत्ति, मकारो लाक्षणिक, हे नोदक ! यथारंमस्तवावाय कर्मोपादानायेष्ठोऽभिप्रेतः, गुप्तिश्च तत्परिहारख्या शेयसे कर्मानुपादानायाऽभिप्रेता, तथा च सति हे साधो ! मास्पन्दं मा वा वस्त्रं छिद्यमानं वारय । किमुहं भवति, यदि ववच्छेदनमारंभतया भवता कर्मबन्धनिबन्धनमभ्युपगम्यते, ततो येयं ववच्छेदनप्रतिषेधाय हस्तस्पन्दनात्मिका चेष्टा क्रियते यो वा तत्प्रतिषेधको ध्वनिरुच्चार्यते तावप्यारंभतया भवता न कर्तव्यौ, अतो मदुक्तोपदेशादन्यथा चेत् करोषि, ततस्ते प्रतिज्ञाहानिः, स्ववचनविरोधलक्षणं दृषणमापद्यत इत्यर्थः, अथ प्रवीथाः योऽयं मया वस्त्रच्छेदनप्रतिषेधको ध्वनिरुच्चार्यते स आरंभप्रतिधकत्वाक्दिोष इति, अत्रोच्यते"अदोसवं ते जइ एस सदो अण्णों वि कम्हा ण भवे अदोसो। अहिच्छया तुज्झ सदोस एको एवं सती कस्स भवे न सिद्धी॥" ___ यथेषः त्वदीयः शब्दोऽदोषवान् ततोऽन्योऽपि वस्त्रच्छेदनादिसमुत्थः शब्दः कस्माददोषो न भवेत, तस्यापि प्रमापातिरिक्तपरिभोगविभूषादिदोषपरिहारहेतुत्वात् । अथेच्छया स्वामिनयेण तवैको वस्त्रच्छेदनशब्दः सदोषोऽपरस्तु निर्दोषः, एवं सति कस्य न स्वपक्षसिद्धिर्भवेत् , सर्वस्यापि चागाढवचनमात्रेण भषत इव स्वाभिप्रेतार्थसिद्धिर्भवेदिति. भावः। ततथास्माभिरप्येवं वक्तुं शक्यं यदुत योऽयं वस्त्रच्छेदनसमुत्यः शब्दः स निदोषः सन्दत्वात् भवत्परिकल्पितनिर्दोषशब्दवदिति। किच"त. छिंदओ होज सई तु दोसों खोभाइयं चेव जओ करेइ । जे पेहतो होंति दिणे दिणे तु संपाऊण तेच णिज्म के वि॥"