________________
११९
स्स अंते अंतकिरिया ण भवति२६ ।। "
अथेत्थं भणिष्यथ एवं तर्हि भिक्षादिनिमित्तमपि चेष्टा न विधेयेति, नैवं यतः -
"जा यावि चिठ्ठा इरिआइआओ संपस्सहेताहिं विणा ण देहो । संचिए नेवमच्छिज्जमाणे वत्थंमि संजाय देहणासो ॥" यावापि चेष्टा ईर्यादिकाः संपश्यत तत्रेरणमीर्याभिक्षासंज्ञाभूम्यादौ गमनं आदिशब्दाद्भोजनशयनादयो गृहान्ते, एताभिर्विना देहः पौगलिकत्वान सन्तिष्ठते न निर्वहति, देहमन्तरेण च संयमस्यापि व्यवच्छेदः प्राप्नोति वस्त्रे पुनरच्छिद्यमाने नैवं देहनाशः संजायतेऽतो न तच्छेदनीयं किश्व -
जहा जहा अप्पतरो से जोगो तहा, तहा अप्पतरो से बन्धो । निरुद्धजोगिस्स च उण होइ अच्छिद्दपोतस्स व अंबुणाई || "
यथा यथा से तस्य जीवस्याल्पतरो योगस्तथा तथा से तस्याल्पतरो बन्धो भवति, यो वा निरुद्धयोगी शैलेश्यवस्थायां सर्वथा मनोवाक्कायव्यापारविरहितः तस्य कर्मबन्धो न भवति, दृष्टान्तमाह + अच्छिद्रपोतस्येवांबुनाथे । यथा किल निच्छिद्रप्रवहणं सलिलसंचयसंपूर्णेऽपि जलधौ वर्त्तमानं स्वल्पमपि जलं नाश्रवति, एवं निरुद्धयोगोऽपि जन्तुः कर्मवर्गणा पुद्गलैरंजनचूर्णसमुद्गकवनिरन्तरं निचितेऽपि लोके वर्त्तमानः स्वल्पीयमपि कर्म नोपादत्तेऽतः कर्मबन्धस्य योगान्वयव्यतिरेकानुविधायितया तत्परिजिहीर्षुणा वस्त्रच्छेदनादिव्यापारो न विधेयः, इत्थं परेण स्वपक्षे स्थापिते सति सरिराह
३६ यावत् एष जीवः सदा समितं पजते, वेपते, चलति, स्पन्दते, घुट्टते, क्षुम्नाति, उदीरयति तं तं भावं परिणमते तावत् तस्व जीवस्य अन्ते अन्तक्रिया न भवति ॥