SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ भो आचार्य ! तत्र वस्त्रे छिद्यमाने शब्दः संमूर्च्छति च्छेदनका वा सूक्ष्मावयवा उड्डीयन्ते । एते च द्वयेऽपि विनिर्गता लोकान्तं यावत् प्राप्नुवन्ति तथा तस्य देहस्य च यो विकंपश्चलन ततोऽपि विनिर्गता वातादयः प्रसरन्तः सकलमपि लोकमापूरयन्ति । "अहिच्छसी जन्ति ण ते उ दूरं संखोभिआ तेहवरे वयन्ति । उद्धं अहे यावि चउदिसि पि पूरिति लोगं तु खणेण सर्व ॥" ___ अथाचार्य ! त्वं इच्छसि मन्यसे, ते ववच्छेदनसमुत्थाः शब्दपक्ष्मवातादिपुद्रलाः, न दूरं लोकान्तं यान्ति, तर्हि तैः संक्षोभिताश्चालिताः सन्तोऽपरे व्रजन्ति एवमपरापरपुद्गलप्रेरिताः पुद्गलाः प्रसरन्तः क्षणेनोद्धर्वमधस्तिर्यक् चतसृष्वपि दिक्षु सर्वमपि लोकमापूरयन्ति । यत एवमतः"विनाय आरंभमिणं सदोसं तम्हा जहालद्धमहिहिहिज्जा । वुत्तं स एओ खलु जाव देही ण होई सो अंतकरी तु ताव ॥" इममनन्तरोक्तं सर्वलोकपूरणात्मकमारम्भं सदोष सूक्ष्मजीवविराधनया सावधं विज्ञाय तस्मात् कारणात् यथालन्धं वस्त्रमधितिष्ठेत् , न छेदनादि कुर्यात् । यत उक्तं भणितम्व्याख्याप्रज्ञप्तौ, यावदयं देही जीवः, सैजः सकम्पः चेष्टवानित्यर्थः तावदसौ कर्मणो भवस्य वा अन्तकारी न भवति, तथा च तदालापक: "जाव णं एस जीवे सया समिश्र एअइ, वेअइ, चलइ, फंदइ, घुट्टइ, खुमइ, उदीरइ तं तं भावं परिणमइ. ताव णं तस्स जीव
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy