________________
११५ नम्वेवं चतुर्यगुणस्थान एवास्य प्राथम्यमुपपद्यते तत्रैव गुणश्रेणीप्रारंभेण प्राक्तनदशापेक्षया पुनः पापाकरणप्रारम्भात्, युक्तं चैतत् 'सम्मदिही जीवो' इत्यादितन्त्रसिद्धत्वादिति चेत्, सत्यम्, तदा मिथ्यात्वाश्रवनिवृत्तावप्यब्रह्माधाश्रवानिवृत्त्या विरतिरूपस्य पापाकरणस्यायोगाद, अन्यथा चतुर्थपञ्चमगुणस्थानसांकर्यापातात् । न च विरत्यावरकानन्तानुबन्धिनिवृत्तौ तदा तदापत्तिः शकनीया, वैयावृत्त्यादिरूपाल्पतभेदोपपत्तावपि पंचमादिगुणस्थानवटकतदनुपपत्तेरिति विभावनीयम् । सुसंयतानां शास्त्राभ्यासपरामर्शविशदीभूतहृदयानां भावसाधूनां यावज्जीवं समस्तपापो. परमात् विशिष्टतरो देशविरतिगुणस्थानस्थलीयाकरणनियमापेक्षयाऽधिकतरोऽकरणनियमः, भावोत्कर्षेणैव तदुत्कर्षात् । तदिदमाह
"देसविरइगुणठाणे अकरणणियमस्स एव सम्भावो। सम्वविरहगुणठाणे विसिहतरओ इमो होइ ॥ जं. सो पहाणतरओ आसयभेओ तो आएसो त्ति३॥११३॥
यत एवमाशयप्रकर्षादेतत्कर्षः। एत्तो अकरणनियमो खीणे कम्ममि खवगसेढीए। एत्तो अ वीयरागो कुणइ ण किंची गरहणिज्जं ॥११४॥
___ इतश्चेत एव, क्षपकश्रेण्यां क्षीणे कर्मणि अकरणनियमस्तस्यां हि यत्कर्म यत्र क्षीणं तत्पुनर्न क्रियत इति कर्मस्तवादौ प्रसिद्धम् । एतच कर्मक्षयनिबन्धनाशयप्रकर्षणाकरणनियमप्रकर्षादु३१ देशविरतिगुणस्थाने अकरणनियमस्यैव सद्भावः । .
सर्वविरतिगुणस्थाने विशिष्तरोऽयं भवति । यस्मात्स प्रधानतर माशयमेदस्तत मादेश इति ।
-