________________
सव्वप्पवायमूलं दुवालसंग जओ समक्खायं । रयणागरतुल्लं खलु तो सव्वं सुंदरं तंमि२९ ॥११२॥
अथायमकरणनियमः कुत्र भवति कुत्र चातिरिच्यत इत्याहदेसविरहगुणठाणे पढमो एसो उ गठिभेअंमि । रोगिकिसत्तणतुल्लो सुसंजयाणं विसिट्टयरो ॥११३॥
एषोऽकरणनियमः नियताब्रह्मसेवादिनिवृत्तिरूपः, प्रथम आदिमः, प्रन्थिभेदे मोहग्रन्थिविदारणे, देशविरतिगुणस्थाने भवति, भिभग्रन्थिकेन पुनरपि व्यावर्तितपापाकरणात्। कीदृश इत्याहरोगिकृशत्वतुल्यः। द्विविधं हि शरीरे कार्यमुत्पद्यते, एकं नीरोगस्यापि दुर्भिक्षादिषु तथाविधभोजनाभावात् , अपर च पूर्वमाणभोजनसंभवेऽपि राजयक्ष्मरोगग्रासात् । तत्र प्रथमस्य समुचितभोजनलाभेऽविकलस्तदुपचयः स्यादेव, द्वितीयस्य तु तैस्तैरुपचयकारणैरुपचर्यमाणस्यापि प्रतिदिनं हानिः, एवं सामान्यमयोपसमप्रयोज्यं पापाकरणं सामग्रीलामात् पुनरपि प्रतियोग्युन्मज्जनादपचययोग्य एव, प्रन्थिभेदकालीनविशिष्टक्षयोपशमप्रयोज्यस्तु पापाकरणनियमो द्वितीयकार्यवस्प्रतिसमयमुपचययोग्य एव तदत्यन्तनिवृत्त्या यावत् सर्वक्लेशविकलो मुक्तिलाम इति विभावनीयम् । तदिदमुक्तम् -
"पावे अकरणनियमो पायं परतभिवित्तिकरणाओ। णेओ अ गंठिभेदे मुज्जो तयकरणरूवो उ३० ॥"
२९ सर्वप्रवादमूलं द्वादशांग यतः समाख्यातम् ।
रत्नाकरतुल्यं खलु तस्मात्सर्वे सुन्दर तस्मिन् ॥ ३० पापेऽकरणनियमः प्रायः परतभिवृत्तिकरणात् ।
शेयश्च प्रथिमेदे भूयस्तदकरणरूपस्तु ।।