________________
१०८
19
महोदवितरणं यथा हि कश्चिदतिसाहसिकोऽनालोचितकारी भुजाभ्यामेव बलमतां तरणं श्रेयो नत्ववलावत्पोतावलंबनेनेति लोकवचनश्रवणोदितधृष्टमानः पोतं महत्त्वा सुजाभ्यामेव समुद्र तरभतिश्रोततया तत्रैव निमज्जति, एवं सम्यगपरिणतो मुनिरपि कबिद् गुरुकुलवासे न तथाविधा भिक्षाविशुद्धिरिति लोकवचनं शृण्वन् “ आयत्तया महागुणकालो बिसमो सपविखओ दोसो आइतिगभंगकेणवि गहणं भणियं पकप्पंमीति" पंचकल्पभाष्यवचनमश्रदधानः शुद्धोवाद्य गुरुकुलवासत्यागेन विहारमवलंबमानो बहुलदोषमग्नतयाऽतिसाहसिकः संसार एव परिभ्रमतीति ॥ १०६॥
यथैवमेतेषां यथावसरमितरकृत्यपरित्यागादधिकगुणकाभा
ननुबन्धिनोऽनुष्ठानस्याविधिप्रधानत्वाच्छुद्धोच्छादिग्रहणेनापि न हितं तथा न केवलमुपवासेनापि तत्स्यादित्याहउनवासो वि य एको ण सुंदरो इयरकज्जचाएणं । णेमित्तिओ जमेसो णिच्चं एक्कासणं भणियं ॥ १०७ ॥
उपवासोऽपि एकः केवलः, न सुंदरो न स्वोचितफलदायी, इतर कार्यत्यागेन विनयवैयावृत्त्याद्य परकार्यावसीदमेन, काले कृतं हि सर्वे फलवद् भवेत्, न बेतरकार्यकरणवेलायां तद्विरोध्युपवासकाल इति, एतदेवाह - यद् यस्मादेव उपवासः, नैमिसिकः - तथाविधनिमित्तोपनिपातसंभविकर्त्तव्यताकः, पर्वादिष्वेव तवानात्, तत्र पर्वाणि चतुर्दश्यादीनि प्रयोक्तं व्यवहारभाष्येस्छमकरणे अमिपक्खचउमासवरिसेछु ।
लहुओ गुरुओ लहुआ गुरुगा य कमेण बोधघ्या २१ ॥ " आदिना
२१ तुर्थषष्ठामाकरणे अष्टमीपाक्षिक चतुर्मासवर्षेषु । लघुको गुरुको लघुका शुरुकाध क्रमेण बोद्धव्या ॥