________________
१०६
चरणकरणप्पहाणा ससमयपरसमयमुक्कवावारा । चरणकरणस्स सारं णिच्छयसुद्धं ण याणंति ॥१०३॥ -_चरणं "वयसमणधम्मेत्यादि" गाथोक्तसप्ततिभेदं, करणमपि "पिंडविसोहीसमिईत्यादि" गायोक्तसप्ततिभेदम् , ताभ्यां प्रधानास्तत्र नैरन्तर्यादरवन्त इत्यर्थः, स्वसमयपरसमययोर्मुक्तोऽनाहतो व्यापारः स्याद्वादपरिकर्मितधिया विवेचनात्मा यैस्ते तथा चरणकरणानुष्ठानेनैव कृतार्था वयं, किमस्माकं तर्ककर्कशेन वादरसिकरमणीयेन स्याद्वादेन प्रयोजनमित्येवं ज्ञानाभ्यासाद् व्यावृत्ता इत्यर्थः, चरणकरणस्य चरणकरणानुष्ठानस्य सारं स्वजन्यफलोत्कर्षाङ्गम् , निश्चयशुदं परमार्थदृष्टयाऽवदातं न तु बायक्रियावलोकदृष्टयैवापाततो रमणीयमित्यर्थः, न जानन्ति-न विचारयन्ति तदावरणकर्मदोषात् । एवं च तेषामल्पफलमेव चरणकरणानुष्ठानमित्यर्थः ॥१०३॥ सूत्रसंमतत्वमप्यस्यार्थस्यावेदयनाहभणियं च भगवयावि य आयारंगे इमं विसेसाओ। जं सम्मं तं मोणं जं मोणं तं च सम्मति ॥१०॥ ____ भणितं च भगवतापि सुधर्मस्वामिनापि, एतदनुपदोक्तं, आचारांगे, विशिष्यान्योन्यव्याप्यव्यापकभावमवधार्य, यत् सम्यक् भावप्रधाननिर्देशात् सम्यक्त्वं, तन्मौनं मुनिभावः, यच मौनं तत्सम्यक्त्वमिति, "जं सम्मति पासहा तं मोणंति पासहा । जं मोणंति पासहा तं सम्मति पासहा१९॥" इति हि सूत्र व्यवस्थितम् । अत्र हि द्वयोस्तादात्म्येन व्याप्यव्यापकभावदर्शनं विधीयते, तच्च द्वयोस्तुल्यवदाराधनप्रवृत्तये "दसणचरिचपक्खो . १९ यत्सम्यक्त्वमिति पश्यत तम्मौनमिति पश्यत ।
यन्मौनमिति पश्यत तत्सम्यस्त्वमिति पश्यत ।
-