________________
१०५
।
इति संशादिमेदाद्विरदेशकालानुपलब्धेश्च, तथा सर्वत्र घटपटादावपरस्य वीर्य शक्तिरस्ति व्यक्तस्य प्रधानकार्यत्वादित्येवं संग न निवेशयेत्, न वा "सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थिता इति" प्रतिनियतशक्तित्वाम सर्वत्र सर्वस्य वीर्यमस्तीत्यपि संज्ञां निवेशयेत् , सर्वथा सतोऽसतो वा कार्यस्यानुत्पनेच्यार्यतया सर्वस्यैकवक्तिमतोऽपि पर्यायार्थतया स्वमात्रमग्नशक्तित्वनोत्पादादन्यथा नियतोपादानार्थकप्रवृत्त्यनुपपत्तेः, अत एवाह-"एएहि०" ॥११॥ स्पष्टः । इत्थं चात्र प्रत्येकपक्षाभिधाने सर्वत्रानाचारएक दिनमात्रेण दर्शित इति सर्वत्र स्याद्वादश्रद्धयैव सम्यक्त्वं व्यवस्थितम् ॥१.१॥
विमज्यवादमेवामिष्टौतिएसो पवयणसारो सव्वं इञ्चत्यमेव गणिपिडगं । एअंमि अविणाए विहल चरणं जओ भणियं ॥१०२॥
एषः विभज्यवादः प्रवचनसारः एतद्बोधनेनैव प्रवचनस्य फलवत्त्वात् । “एगे आया" इत्यादेरपि तन्त्रपरिकमितमत्या एकत्वानेकत्वादिसप्तमंगीपरिकर्मितबोधस्यैवोत्पत्ते, एकनयावधारणे मिथ्यादृष्टिवचनाविशेषप्रसङ्गात् । न केवलं प्रवचनकार्यमेवार्य अपि तु तत्कारणमपीत्याह-सर्व निरवशेष, इत्यर्थकमेव-उपदिष्टक्मिज्यवादार्थकमेव, गणिपिटकं द्वादशाकीरूपं, अर्थ हि भगवानुपदिशति सूत्रं च ततो गणधरा अनन्ति, स च त्रिपदीरूपः स्वाद्वादमूर्तिरिति सिद्धं गणिपिटकस्य स्थाद्वादहेतुकत्वं, यत एवं ततः एतस्मिभविज्ञाते अपरिच्छन्ने विफलं असारं चरणं चारित्रं स्याद्वादरुचिरूपसम्यग्दर्शनादिशून्यवाद । यतो भणितं सम्मतौ श्रीसिद्धसेनदिवाकरपादैः-१०।