________________
"से सुद्धमुत्ते उवहाणवं च धम्म च जे विंदति तत्थ तत्थ । आदेजवके कुसले वियत्ते से अरिहइ भासिउं तं खमाहि" ॥२७॥
स शुद्धसूत्रोऽवदातप्रवचनः, उपधानं यद् यस्य सूत्रस्याभिहितं तपश्चरणं तद्वान् धर्म च यो विन्दति लभते, तत्र तत्राज्ञाग्राह्यहेतुग्राह्याधर्थानां स्वस्वस्थाने, आदेयवाक्यो ग्राह्यवचनः कुशलो निपुणः सदनुष्ठानादौ, व्यक्तः परिस्फुटो नासमीक्ष्यकारी, सोऽर्हति तं समाधि भाषितुमिति । न चायं विधिरगीतार्थैर्गुरुविनियोगरहितैः कष्टानुष्ठायिभिरपि कर्तुं शक्यत इति विफलैव तेषामुपदेशचेष्टेति भावः ॥९॥
उक्तसूत्र एव प्रश्नप्रतिवचने प्राहनणु इह विभजवाओ आणत्तोण य निररुद्धपत्यारो। एयं कहमविरुद्धं भन्नइ सोआरमहिगिच ॥९९॥
नन्विह संकिज्जया इत्यादिसूत्रे, विभज्यवादः स्याद्वादः आजप्तः सर्वत्र भाषितुमनुज्ञातः, तथा निरुद्धप्रस्तारः स्तोकार्थविस्तरश्च, नानुज्ञातः, एतद्द्वयं कथमविरुद्धं स्याद्वादप्रकाशने विस्तरावश्यभावात् । भण्यते-प्रत्युत्तरं विधीयते । श्रोतारं श्रोतृविशेष अधिकृत्याविरुद्धमेतत्, निखिलनयचतुरं प्रपश्चितझं प्रतिपत्तारम्द्दिश्य विस्तरेण स्याद्वादप्रतिपादनात्, एकतरनयप्रियं च तमुदिश्य स्याद्वादप्रतिपत्तियोग्यतामाधातुं स्तोकप्रतिपादनात्तदानीमपि स्याद्वादप्रतिपादनयोग्यताया अनपायात्, तथा चाह सम्मतिकारः
"पुरिसज्जायं तु पडुच्च जाणो पनवेज्ज अण्णयरं।
परिकम्मणाणिमित्तं दाहेही सो विसेसंपि१७ ॥१९॥ १७ पुरुषजातं तु प्रतीत्य सापकः प्रज्ञापयेदन्यतरम् ।
परिकीनिमित्तं दर्शयिष्यति स विशेषमपि ।