SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ गुरोः सकाशाद् यथावदर्थं निशम्य सम्यगर्यदर्शी सन् आशया सर्वज्ञप्रणीतागमानुसारेण शुद्धं पूर्वापराविरुद्धं निरवचं पचनममियुञ्जीत, उत्सर्गापवादयोः स्वपरसमययोश्च यथास्वं वचनमभिवदेदित्ययः । इत्थंभूतश्च भिक्षुः पापविवेकं काङ्खमाणो निर्दोष वचनमभिसंधयेत् । "अहाइआई मुसिक्खएज्जा जएजया गाइवेलं वइज्जा। से दिछिमं दिडि न लूसइज्जा से जाणइ भासिउं तं समाहि" ॥२५॥ यथोक्तानि वचनानि तीर्थकृदादिभिः सुष्टु शिक्षेत ग्रहणासेवनाशिक्षाभ्यां, तथा सदा तयोर्देशनायां यतेत, सदा यतमानोऽपि कर्त्तव्यकालवेलामुल्लंघ्य नातिवेलं वदेत्, परं परस्पराबाधया सर्वाः क्रियाः कुर्यादित्यर्थः । स एवंविधः सम्यग्दृष्टिमान् सम्यग्दर्शनं न लूपयेन दूषयेत्, पुरुषविशेष ज्ञात्वा तथा वक्तव्यं यथा तस्य सम्यक्त्वं स्थिरीभवति, न पुनः शक्होत्पादनतो दृष्यत इति । यश्चैवंविधः स जानात्यवबुध्यते भाषितुं तं तीर्थकरोक्तं समाधि सम्यग्दर्शनज्ञानचारित्राख्यं, इतरश्च भाषणायोग्य एव इति । "अलूसए नो पच्छन्नभासी नो मुत्तमन्नं च करिज ताई। सत्यारभत्ती अणुवीइ वायं मुकं च सम्म पडिवनएज्जा" ॥२६॥ अषकोऽपसिद्धान्तव्याख्यानेन सर्वज्ञोक्तमदूषयन् न प्रच्छनभाषी भवेत् सार्वजनीनं सिद्धान्तार्थ प्रच्छन्नभाषणेन न गोपयेत् , यदि वा प्रच्छन्नमर्थमपरिणताय न भाषेत । न च सूत्रमन्यत् स्वमतिविकल्पनतः स्वपरत्रायी कुर्वीत, शास्तरि या भक्तिस्तामनुविचिन्त्य न कदाचिदागमवाधा स्यादित्येवं पोलोच्य वादं वदेत् श्रुतं चाऽऽचार्यादिभ्यः सकाशात् सम्यक् तदारापनामनुवर्तमानोऽन्येभ्य ऋणमोक्ष प्रतिपद्यमानः प्रतिपादयेत्
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy