________________
९५
मन्नता अन्नाणा अप्पाणं गुरुचरितजोगत्थं । मत्ता इव गयसत्ता पर पर हंत निवति ॥९५॥
अज्ञानास्तत्त्वोपयोगशून्याः आत्मानं बाह्यव्यापारप्रवृत्तं स्वं गुरुचरित्रयोगस्थं दुर्द्धरचारित्रानुष्ठानस्थितं मन्यमानाः, मत्ता इव वारुणीपानविगलितचेतना इव गतसत्वा निवृत्तधैर्याः, पदे पदे स्थाने स्थाने हंतेति खेदे निपतन्ति प्रस्खलन्ति, तथाहिमत्ताः पदे पदे गात्रबन्धशिथिलीभावात् पतन्ति, एवमेतेऽपि केनचिद्विदग्धेन गंभीरसूत्रार्थं पृष्टाः सर्वे गुणमात्मन्यारोपयितुकामास्तदनुपलम्भे तत्समाधानाशक्ताः पदे पदे पतन्तीति ।। ९५ ।। एतेषामज्ञानितामेव यथास्थितानुपदर्दयति
जं हीणा तुल्लतं वहति एए महाणुभावोणं । उस्सुतं भाता बितिया सा बालया तेर्सि ॥ ९६ ॥
यद यस्मादीना अभ्यन्तरशुद्धयोगरहिताः महानुभावानां बाह्याभ्यन्तरयोगे समुचितप्रवृत्तीनामागमानुसारिणां महर्षीणां तुल्यत्वं वहन्त्येते, उत्सूत्रं स्वाभिप्रायिकाचारसमाधानाय सूत्रविरुद्धं भाषमाणाः, सा तेषां द्वितीया बालता, एका सूत्रविरुद्धाचरणरूपा, द्वितीया च महापुरुषावगणनरूपेति । तथा चागमः" शीलमंता उवसंता उवसंता संखाए रीयमाणा । असीलाशुवयमाणस्स बितिया मंदस्स बालया १६ " ॥ इति ॥ ९६ ॥ तु कष्टानुष्ठायिनां किमर्थमेतेषां महानुभावस्पर्धानियता स्यात् येन द्वितीयबालतावकाश इत्याशङ्क्याह
गुणव गुणवद्गह
१६ शीलवन्त उपशान्ताः संख्यया गच्छन्तः । अशीलानुवजमानस्य द्वितीया मन्दस्य बालता ॥