SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ निरोधेनेतरविषयव्यावृत्त्या तदेकाग्रतालक्षणेन, प्रतिदिन प्रतिवासरं ज्ञानवृद्धौ, उचितार्थानां तत्तद्व्यादिसामण्यनुरूपोत्सर्गापवादादिरूपाणां चिन्तया गुरुलाघवानुपातिनोपयोगेन, कल्याणभाजनत्वमागमिष्यद्भद्रत्वं भवति, शास्त्रार्थानुसन्धानमुनिश्चितपरिणतिकप्रवृत्तेरेव श्रेयोमूलत्वात्। तथा च स्वाध्यायादिक्रिययाऽसत्क्रियानिवृत्तिः, तस्यां च काष्ठाप्राप्तायां निर्विकल्पपरिणामाभिमुख्ये, वोर्दावं विनाश्यानुविनाशवत् स्वयमेव स्वनाशे, मोक्षोऽप्यर्थादुपपत्स्यत इति न कश्चिद्विरोध इति फलितम् ॥१३॥ ___ तदेवं दुःषमायामपि गुरुपारतन्त्र्येण ये स्वाध्यायादिप्रधानयोगप्रवृत्तास्तेषां यतित्वमव्याहतं, ये तु विपरीतास्तानवगणयन्नाहकेइ असग्गहगहिया अमुणता एयमत्तदोसेण । उज्झियपहाणजोगा बज्झे जोगे ठिया तुच्छे ॥९॥ केचित, असद्गृहीता मिथ्याभिनिवेशविसंस्थुलीकृतात्मशक्तयः, एतत् उचितार्थचिन्तया कल्याणभाजनत्वं, अमुणंतत्ति अजानानाः, आत्मदोषेण स्वार्जितेन मिथ्यात्वमोहादिकठिनकर्मविपाकेन, उज्झितस्त्यक्तः प्रधानयोगो विपुलतरनिर्जरानिबन्धनगुरुपारतन्त्र्याधीनस्वाध्यायाचाराधनात्मा यैस्ते, बाह्ये बहिर्दृष्टिमात्ररम्ये, यथावत् परमगुरुवचनोपयोगशून्यतया शरीरव्यापारमात्ररूपे, तुच्छेऽत्यल्पफलके, योगे अनुष्ठाने, स्थिताः स्वबुद्धिकल्पनया प्रवृत्ताः, ते हि परित्यक्तनर्मदातीरा मृगतृष्णायां जलश्रमवन्तः काकबाला इव केषां न शोचनीया इति भावः ॥९॥ इत्यं प्रवृत्तास्ते किं कुर्वन्तीत्याह
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy