________________
पञ्चाश्रवविरमणादिरूपे सप्तदशभेदे उधुम परीनुष्ठानचिकीर्षानुबद्धप्रवृत्तिमन्तः, प्रज्ञापनीयाः कुतोऽप्यनाभोगाद सामाचारीतः स्खलनेऽपि संविगैगीतार्थेश्च प्रज्ञापयितुं शकथास्ते च तेऽसनमुन्दरो ग्रहः स्वविकल्पात्तथाविधागीतार्थप्रज्ञापकोपदेशाद् वा विपर्यस्तरूपतया शास्त्रार्थस्यावधारणं, तेन रहिताः, तथा महासत्त्वा भगवदाज्ञातो देवैरपि चालयितुमशक्याः ॥११॥
उक्तगुणानामुत्पत्तिबीजमाविष्कुर्वन्नाहणियमा णत्थि चरितं कइया वि हु नाणदसणविहणं । तम्हा तम्मि ण संते असग्गहाईण अवगासो ॥१२॥
नियमात् एकान्ततः, नास्ति चारित्रं कदापि हि दुषमसुषमायां दुःषमायां वा, ज्ञानदर्शनाभ्यां विहीनं रहितं, तस्मात्तस्मिन् चारित्रे सति, असद्ग्रहादीनां दोषाणां नावकाशः, ज्ञानदर्शनसामउयैव तद्वीजमिथ्यात्वोच्छेदादिति भावः । अत्रासदहस्य प्रथममभिधानात्तस्य मुख्यदोषत्वं, तत्परित्यागे चाखिलगुणलाभः सूच्यते ॥९२॥
नु मा भूवन चारित्रिणोऽसदहादयश्चारित्रघातकाः परिणामाः परं मोक्षः सर्वक्रियोपरमादिति सर्व क्रियानिरोधे साधयितुमारब्धे किमर्थ स्वाध्यायादिषु क्रियाविशेषेषु यत्नः कर्त्तव्यतयोपदिष्ट इत्याशपयाहसज्झायाइणिओगा चित्तणिरोहेण हंदि एएसि । कल्लाणभायणत्तं पइदिणमुचियत्थचिंताए ॥१३॥
हंदीत्युपदर्शने, एतेषां साधूनां स्वाध्यायादिनियोगात् पापश्रुताजज्ञाप्रधानजिनागमाध्ययनादिविशिष्टप्रयत्नात, चितस्य मनसो