________________
१२
seed कदाचिदपि न भवति, एवमेव मुनेश्वरणपरिणामवतः, शुभयोगे स्वाध्यायध्यानविनयवैयावृत्यमानादिरूपे द्रव्यावैषम्यरूपे प्रतिबन्धेऽपि पक्षपातहीनस्वं न भवति, यथाशक्त्यनुष्ठानेन मातृस्थानानासेवनेन च तत्रैव चेतसः प्रतिबन्धात् ॥ ८९ ॥
नन्वेवं शुभयोगेच्छाया अनपायेऽपि तत्र प्रवृत्त्यभावात् कथं फलसिद्धिरिच्छा हि प्रवृत्तावेवोपयुज्यते प्रवृत्तिश्व फलजनन इत्याशङ्क्याह
अपयट्टो वि पयट्टो भावेण एस जेण तस्सत्ती । अक्खलिआ निविडाओ कम्मखओवसमजोगाओ॥९०॥
अप्रवृत्तोऽपि प्रतिबन्धात् द्रव्यक्रियायामव्यापृतोऽपि, भावेन परमार्थेन, प्रवृत्त एष शुभभाववान्, येन कारणेन, तच्छक्तिः सत्प्रवृत्तिशक्तिः, अस्खलिता अव्याहता, निबिडात् बजाश्मवदुर्भेदात्, कर्मक्षयोपशमयोगात्, सत्प्रवृत्तिप्रतिपन्थिचारित्रमोहनीय कर्मक्षयोपशमसम्बन्धात् । इत्यं चात्र शक्ये शक्त्यस्फोरणविनाकृतः शुभभाव एवं स्वगतनिर्जरालाभहेतुरबालत्वाच्चैतत्फलस्य बाह्यप्रवृत्यभावेऽपि न क्षतिरिति फलितम् ॥९०॥
इदानीमुदीरितं मुनिवृत्तं सांप्रतकालेऽपि योजयन्नाह - एवं खु दुस्समाए समिया गुत्ता य संजमुज्ज़त्ता । पन्नवणिज्जासम्गहरहिया साहू महासत्ता ॥ ९१ ॥
एवमुक्तप्रकारेण, खु इति निश्रये, दुःषमायां पंचमारकलक्षणकालेऽपि गम्यः, तत्रापि सर्वतः प्रवृत्तनिरंकुशासमञ्जसाचारायां वक्ष्यमाणलक्षणाः साधवो शातम्याः, इति वाकचार्यसम्बन्धः । समिता ईर्यादिसमितिपरायणाः, गुप्ताः संलीनमनोवाक्कायाः, संयमे