________________
प्रायो बाहुल्येन, बाह्याभावेऽपि कायिकादिबहिर्व्यापारव्याघातेऽपि, भावहरा यतनापरिणामोपघातका न भवन्ति, प्रायो ग्रहणं मन्दक्षयोपशमवति व्यभिचारवारणाय ॥८॥ .. एतदेव निदर्शनेन भावयतिजह सम्ममुछिआणं समरे कंडाइणा भडाईणं । भावो न परावत्तइ एमेव महाणुभावस्स ॥८॥
___ यथा सम्यक् स्वौचित्यानतिलंघनेन, उत्थितानां उन्मीलिताध्यवसायानाम्, भटादीनां मुभटादीनां, समरे संग्रामे, कांडादिना शरीरलमबाणादिना भावः प्रतिज्ञातव्यवसाया,न परावर्त्तते नान्यथा भवति प्रत्युत स्वाम्याज्ञापालनपरायणत्वेन रतिकेलिकुपितकान्तकर्णोत्पलताडनादिवत् प्रमोदायैव भवति, एवमेव महानुभावस्य वीतरागाज्ञापालनेऽत्यन्तरसिकस्य साधोयादिवैषम्येऽपि न भावः परावर्त्तते किन्तु प्रवर्द्धत इति द्रष्टव्यम् । सुभटदृष्टान्तेन द्रव्यवैषम्ये भावविच्छित्तिनिदर्शिता, आदिना सौराष्ट्रादिदेशोत्पमानामपि धीराणां मगधादिदेशगमनेऽपि धैर्याविचलनवत् सुभिक्ष इव दुर्भिक्षेऽपि दानशूराणां दानव्यसनाक्षोभवत् बुभुक्षादिव्यसनेऽपि सिंहादीनां तृणाघग्रासवत् क्षेत्रादिवैषम्येऽपि भावाविच्छित्तिर्भावनीया ॥८८॥ एतदेव निदर्शनान्तरेण द्रढयतिमालइगुणणुष्णो महुअरस्स तप्पक्खवायहीणतं । पटिबंधेऽवि ण कइआएमेव मुणिस्स सुहजोगे॥८९॥
मालतीगुणस्य मालतीपरिमलचारिमानुभवैकममचेतसः, मधुकरस्य भ्रमरस्य, प्रतिबन्धेऽपि कुतोऽपि हेतोस्तदप्राप्तावपि तत्र मालत्यां य: पक्षपातो बहुमाननरन्तर्यात्मा तदीनत्वं तद्वि