SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ गाथा : सल्लं कामा विसं कामा, कामा आसीविसोवमा । कामे पत्थेमाणा', अकामा जंति दुग्गइं ।।२८।। व्याख्या : शल्यमिव शल्यं कामाः, विषमिव विषंकामाः, यथा विषं भुज्यमानं मधुरमिवापाते आभात्यथ च परिणतौ दारुणम्, एवमेते कामाः । कामा आशीविषोपमाः आश्यो दंष्ट्रास्तासु विषमस्येति आशीविषः सर्पस्तदुपमाः । किंच कामान् प्रार्थयमाना अपेर्गम्यमानत्वात् पार्थयमाना अपि अकामा अपूर्यमाणकामा इष्यमाणकामाऽभावाद्यान्ति दुर्गतिमिति द्रमकवत्, यथाभोगे अभुंजमाणावि केवि मोहा पडंति अहरगई । कुविओ आहारत्थी जत्ताइ जणस्स दमगुव्व ।।१॥[ ] राजगृहे महोत्सवे गते वैभारगिरिमुद्यानिकायां लोके भिक्षामलभमानः कश्चिद्रङ्कः श्रुत्वाऽऽरक्षकेभ्यो गतस्तत्रैव, तत्रापि प्रमत्ततया लोकस्याऽलब्धभिक्षस्य जातोऽस्य तीव्रकोपः चूर्णयाम्येनं सर्वं दुरात्मानं जनमिति चिन्तयंश्चटितः पर्वतं खनित्रेणोन्मूलितो गण्डशैलः, तेन च पतता स एव प्रवर्द्धमानरौद्रध्यानश्चूर्णितो गतः सप्तमनरकं, लोकस्तु नष्ट इति ।।२८।। गाथा : विसए अवइक्खंता, पडंति संसारसायरे घोरे । विसएसु निराविक्खा, तरंति संसारकंतारं ।।२९।। व्याख्या : विषयान् अपेक्षमाणा=विषयासङ्गं कुर्वाणाः । घोरे रौद्रे संसारसागरे भवसमुद्रे पतन्ति । विषयेषु निरपेक्षास्तत्प्रतिबन्धमविदधानाः, संसारकान्तारं संसाराटवीं, तरन्ति=लङ्घन्ते सिद्धिसौधमध्यमध्यासत इत्यर्थः ।।२९।। १. कामे य पत्थेमाणा मुद्रिते । २. मानमधुर ख । ३. कामा खडड, ड, । ४. ०कंतारे मुद्रिते । ८५ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy