________________
मोक्ख कंखिए, धम्म पिवासए, पुण्णपिवासए, सग्ग पिवासए, मोक्ख पिवास, तच्चित्ते, तम्मणे, तल्लेसे, तदज्झवसिए, तत्तिव्वज्झवसाणे, तदोवउत्ते, तदप्पिय करणे, तब्भावणा भाविए एयसि णं अंतरंसि कालं करेज्ज देवलोगेसु उववज्जइ । से तेणद्वेणं गोयमा !
संस्कृत - छाया
प्रश्न- जीवो भगवन! गर्भगतः सन् नैरयिकेषु उपपद्येत ? उत्तर- गौतम! अस्त्येकैक उपपद्येत, अस्त्यैकको नोपपद्येत । प्रश्न - तत् केनार्थेन ?
उत्तर - गौतम! स संज्ञी पंच्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तिको वीर्यलब्ध्या, वैक्रियलब्ध्या पराऽनीकम् ! आगतं श्रुत्वा, निशम्य प्रदेशान् निक्षिपति, निक्षिप्य वैक्रियसमुद्घातं समवहन्ति, समवहन्य चतुरंगिणीं सेनां विकुर्वति, चतुरंगिणीं सेनां विकुर्व्य चतुरंगिण्या सेनया पराऽनीकं सार्धं संग्रामं संग्रामयते । सजीवोऽर्थकामुकः, राज्यकामुकः, भोगकामुकः, कामकामुकः, अर्थकांक्षी, राज्यकांक्षी, भोगकांक्षी, कामकांक्षी, अर्थपिपासकः, राज्यपिपासकः, भोगपिपासकः, कामपिपासकः, तच्चित्तः, तन्मनाः, तल्लेश्यः, तदध्यवसितः, तत्तीव्राध्यवसानः, तदर्थोपयुक्तः, तदर्पितकरणः, तद्भावनाभावितः, एतस्मिन् अन्तरे कालं कुर्यात्, नैरयिकेषु उपपद्यते। तत् तेनार्थेन गौतम! यावत्-अस्त्येकेकः उपपद्यते, अस्त्येक को नोपपद्यते ।
प्रश्न - जीवो भगवन् ! गर्भगतः सन् देवलोकेषु उपपद्यते ?
उत्तर- गौतम अस्त्येकेक उपपद्यते, अस्त्येक को नोपपद्यते । प्रश्न- तत् केनार्थेन ?
उत्तर - गौतम! स संज्ञी पंचेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तकः तथा–रूपस्य श्रमणस्य वा माहनस्य वा अन्तिके एकमपि आर्य धार्मिकं सुवचनं श्रुत्वा निशम्य ततो भवति संवेग जातश्रद्धः तीव्रधर्मानुरागानुरक्तः, स जीवो धर्मकामुकः, पुण्यकामुकः, स्वर्गकामुकः, मोक्षकामुकः धर्मकांक्षी, पुण्यकांक्षी, स्वर्गकांक्षी, मोक्षकांक्षी, धर्मपिपासकः पुण्यपिपासकः, स्वर्ग - मोक्षपिपासकः, तच्चित्तः, तन्मनाः, तल्लेश्याः, तदध्यवसितः तत्तीव्राध्यवसानः, तदर्थोपयुक्तः, तदर्वितकरणः, तद्भावनाभावितः, एतस्मिन् अन्तरे कालं कुर्यात् देवलोकेषु उपपद्यते । तत् तेनार्थेन गौतम !
है?
मूलार्थ
प्रश्न- भगवन्! गर्भ में गया हुआ जीव फिर नारकियों में उत्पन्न होता
भगवती सूत्र व्याख्यान २२३