________________
अथ स्थानमुक्तासरिका
અભિગ્રહિક મિથ્યાત્વ :- કુમતમાં યથાર્થપણું ગ્રહણ કરવારૂપ છે, તે અભિગ્રહિક મિથ્યાત્વ. અનભિગ્રહિક મિથ્યાત્વ ઃ- દરેક ધર્મમાં સમાનતાની બુદ્ધિ. બધા ધર્મો સરખા છે આવું માનવારૂપ અનભિગ્રહિક મિથ્યાત્વ.
६८
जंने प्रारना मिथ्यात्वना जे लेह छे. ( १ ) सपर्यवसित, (२) अपर्यवसित.
ભવ્યને સમ્યક્ત્વની પ્રાપ્તિ થતાં તે મિથ્યાત્વનો અંત આવે છે. માટે સપર્યવસિત. અભવ્યને સમ્યક્ત્વની પ્રાપ્તિ નથી માટે અપર્યવસિત છે. ।૧૫।
ज्ञानमाश्रित्य द्वैविध्यं दर्शयति
मतिश्रुते परोक्षे केवलनोकेवलज्ञाने प्रत्यक्षे ॥१६॥
मतीति, विशेषावबोधो ज्ञानं तद्द्द्विविधम्, प्रत्यक्षञ्च परोक्षञ्च, परोक्षप्याभिनिबोधिकज्ञानं श्रुतज्ञानञ्चेति द्विविधम्, अत्र प्रथममपि श्रुताश्रुतनिश्रितभेदाद् द्विविधम्, यत्पूर्वमेव श्रुतकृतोपकारस्येदानीं तदनपेक्षमेवानुप्रवर्त्तते तदवग्रहादिलक्षणं श्रुतनिश्रितम्, यत्तु पूर्वं तदपरिकर्मितमतेः क्षयोपशमपटीयस्त्वादौत्पत्तिक्यादिलक्षणमुपजायतेऽन्यद्वा श्रोत्रादिप्रभवं तदश्रुतनिश्रितमिति । उभयविधमपीदमर्थावग्रहव्यञ्जनावग्रहभेदेन द्विविधम्, सामान्यरूपस्याशेषविशेषनिरपेक्षस्यानिर्देश्यस्य रूपादेरर्थस्य प्रथमपरिच्छेदोऽर्थावग्रहः, निर्विकल्पक ज्ञानं दर्शनमिति चाभिधानान्तराण्यस्यैव, अयमेव नैश्चयिकः सामयिक उच्यते, यस्तु व्यावहारिकः शब्दोऽयमित्युल्लेखवान् स आन्तमौहूर्तिकः । अयञ्चेन्द्रियमनःसम्बन्धात् षोढा । व्यञ्जनमुपकरणेन्द्रियं शब्दादितया परिणतद्रव्यसङ्घातो वा, तथा च व्यञ्जनेनोपकरणेन्द्रियेण व्यञ्जनानां शब्दादितया परिणतद्रव्याणामवग्रहो व्यञ्जनावग्रहः इन्द्रियशब्दादिद्रव्यसम्बन्धो वा व्यञ्जनम् अयञ्च मनोनयनवर्जेन्द्रियाणां भवतीति चतुर्धा, नयनमनसोरप्राप्तार्थपरिच्छेदकत्वात् । ननु व्यञ्जनावग्रहः कथं ज्ञानं, इन्द्रियशब्दादिद्रव्यसम्बन्धकाले तदनुभवाभावाद्बधिरादीनामिवेति चेन्न, व्यञ्जनावग्रहान्ते तद्वस्तुग्रहणादेवोपलब्धिसद्भावात्, इह यस्य ज्ञेयवस्तुग्रहणस्यान्ते तत ऐव ज्ञेयवस्तूपादानादुपलब्धिर्भवति तज्ज्ञानं दृष्टम्, यथाऽर्थग्रहपर्यन्ते तत एवार्थावग्रहग्राह्यवस्तुग्रहणादीहासद्भावादर्थावग्रहेज्ञानमिति । किञ्च व्यञ्जनावग्रहकालेऽपि सदपि ज्ञानं सूक्ष्माव्यक्तत्वान्नोपलभ्यते, सुप्ताव्यक्त विज्ञानवदिति । ईहादयोऽपि श्रुतनिश्रिता एव, न तूक्ताः, द्विस्थानकानुरोधात् । अश्रुतनिश्रितमप्यर्थावग्रहव्यञ्जनावग्रहभेदेन द्विविधम्, इदञ्च श्रोत्रादिप्रभवमेव, यदौत्पत्तिक्याद्यश्रुतनिश्रितं तत्रार्थावग्रहः सम्भवति न तु व्यञ्जनावग्रहः, तस्येन्द्रियाश्रितत्वात् । बुद्धीनान्तु मानसत्वात् ततो बुद्धिभ्योऽन्यत्र व्यञ्जनावग्रहो