________________
समवायांगसूत्र
५३७
નીલવાનું, રુકમી, (પ્ય) શિખરી, મંદર આમ ૭ પર્વતો છે. તેમાંથી ૩ મેરુની દક્ષિણે અને ૩ મેરુની ઉત્તરમાં, મધ્યભાગે મેરુ છે. આમ એક મેરુની અપેક્ષાએ વર્ષ અને વર્ષધરો - ૧૩ થયા. મેરુને છોડીને સમયક્ષેત્રમાં પાંચ મેરુ છે. તેથી તેની અપેક્ષાએ ૧૩૪૫ = ૬૫ + ૪ ઈપુકાર पर्वतीने उभे२पाथी ६५+४=६८ पर्वतो क्षेत्रो थया. |६||
समयक्षेत्र एव कर्मणामुत्कर्षस्थितिलाभात्सर्वकर्ममूलभूतमोहनीयस्थितिमाह
मोहनीयकर्मणोऽबाधोनिकास्थितिः कर्मनिषेकः सप्ततिसागरोपमकोटीकोट्यः ॥६२॥
मोहनीयकर्मण इति, शुभाशुभान्यतराध्यवसायी जीवो हि पुण्यपापात्मकस्य कर्मणो योग्यं नातिबादरं नातिसूक्ष्मं न वा स्वावगाढप्रदेशेभ्यो भिन्नप्रदेशावगाढं कर्मवर्गणागतं द्रव्यं तैलादिकृताभ्यङ्गः पुरुषो रेणुमिव रागद्वेषक्लिन्नस्वरूपो रुचकवर्जे सर्वात्मप्रदेशैर्गृह्णाति, शुभाशुभादिविशेषणाविशिष्टमेव तद्गृह्णन् तत्क्षणमेव शुभमशुभं वा कुरुते, परिणामाश्रयकर्मणां तथाविधस्वभावत्वात्, जीवस्य हि शुभोऽशुभो वा परिणामस्तथाविधोऽस्ति यद्वशात् ग्रहणसमय एव कर्मणां शुभत्वमशुभत्वं जनयति, जीवस्यापि कर्माश्रयभूतस्य स कोऽपि स्वभावोऽस्ति येन शुभाशुभत्वेन परिणमयन्नैव कर्म गृह्णाति, तथा कर्मणोऽपि स स्वभावः कश्चिद्वर्त्तते येन शुभाशुभपरिणामान्वितेन जीवेन गृह्यमाणमेवैतद्रूपेण परिणमति, तथा प्रकृतिस्थित्यनुभागवैचित्र्यं प्रदेशानामल्पबहुभागवैचित्र्यञ्च कर्मणो ग्रहणसमय एव करोति तत्राध्यवसायविशेषगृहीतस्य कर्मदलिकस्य यत्स्थितिकालनियमनं स स्थितिबन्धः, स्थितिश्च द्विविधा कर्मत्वापादनमात्ररूपा, अनुभवरूपा च, तत्र कर्मत्वापादनरूपां स्थितिमधिकृत्य मोहनीयस्य कर्मण उत्कृष्टस्थितिः सप्ततिसागरोपमकोटीकोट्यः, अनुभवरूपामङ्गीकृत्य तु अबाधोनिका, येषां हि कर्मणां यावत्यः सागरोपमकोटीकोट्यः तेषां तावन्ति वर्षशतान्यबाधाकालः, स च कालो मोहनीयस्य सप्तवर्षसहस्ररूपः तदानीञ्च कर्म नोदयं यातीति तदूना सप्ततिः सागरोपमकोटीकोट्योऽनुभवरूपा स्थितिः, कर्मदलिकनिषेकोऽपि तदैव, तावन्मान एव, कर्मदलिकनिषेको नाम ज्ञानावरणीयादिकर्मदलिकस्य पूर्वनिषिक्तस्यानुभवनार्थमुदये प्रवेशनम्, तत्र सर्वस्मिन्नपि बध्यमाने कर्मणि निजमबाधाकालं परित्यज्य ततो दलिकनिक्षेपं करोति, तत्र प्रथमायां स्थितौ समयलक्षणायां प्रभूततरं द्रव्यं कर्मदलिकं निषिञ्चति, तत ऊर्ध्वं द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेवं यावदुत्कृष्टस्थितिकर्मदलिकं तावद्विशेषहीनं निषिञ्चति, अयञ्च कर्मनिषेकः ॥६२॥