________________
४९८
सूत्रार्थमुक्तावलिः त्रिंशदिति, मोहनीयमष्टप्रकारं कर्म विशेषतश्चतुर्थी प्रकृतिर्वा तस्य स्थानानि निमित्तानि, वक्ष्यमाणानि समवसरणस्थेन महावीरेण प्रवेदितानि यानि स्थानानि तानि स्त्री वा पुरुषो वा समाचरन् पुनःपुनः शठाध्यवसायितया मोहनीयं कर्म प्रकरोतीति भावः, तत्र स्त्रीपुरुषगृहस्थपाषण्डिप्रभृतीन् त्रसान् वारिमध्ये प्रविश्योदकेन शस्त्रभूतेन पादादिना आक्रम्य मारयति मार्यमाणस्य महामोहोत्पादकत्वात्संक्लिष्टचित्तत्वात् भवशते दुःखवेदनीयमात्मना महामोहं प्रकरोतीति समारणेनैकं मोहनीयस्थानम् । प्राणिनां मुखादि हस्तेन संपिधायावरुध्य चान्तर्नदन्तं मारयति स महामोहं प्रकरोति । वैश्वानरं प्रज्वाल्य महामण्डपवाटादि जनमवरुध्य मारयति स महामोहकृत् । उत्तमाङ्गादौ खड्गमुद्गरादिना प्रहृत्य प्राणिनाशको महामोहकरः । आर्द्रचर्मादिमयेन शीर्षावेष्टनेन यः कश्चित्त्रसान् वेष्टयित्वा मारयति स महामोहविधाता । मायया यो वाणिजकादिवेषं विधाय पथि गच्छता सह गत्वा विजने तं मारयति तत उपहासादि च करोति स महामोहकृत् । यः प्रच्छन्नानाचारवान् स्वकीयदुष्टाचारगोपनया परकीयमायां जयेत् स महामोहं विधत्ते । योऽविद्यमानदुश्चेष्टितं निजकृतऋषिघातादि दुष्टव्यापारारोपाभ्रंशयति सोऽपि तथा । योऽनृतमेतदिति जानानोऽपि सभायां किञ्चित्सत्यानि वह्वसत्यानि सत्यमृषारूपाणि वाक्यानि भाषते स तथा । यो विचक्षणोऽमात्योऽनायकराजदारान् अर्थागमद्वारान् वा ध्वंसयित्वा नायकं वा संक्षोभ्य तद्भोगान् विदारयति अनुकूलयितुं समीपमागच्छन्तमपि नायकं प्रतिकूलैर्वचोभिरवरुध्य विशिष्टान् भोगान् विदारयति सोऽपि तथा । योऽकुमारब्रह्मचारी सन् कुमारभूतोऽहं कुमारब्रह्मचार्यहमिति वदन् स्त्रीषु गृद्धः सोऽप्येवम् । यः स्त्रीगृद्ध्याऽब्रह्मचारी सन् तत्काल एव ब्रह्मचारी साम्प्रतमहमित्यतिधूर्ततया परप्रवञ्चनाय वदति स तथा । यो जीविकालाभेन राजादि सेवते राजादेः सत्कोऽयमिति लब्धप्रतिष्ठश्च तस्यैव राजादेवित्ते लुभ्यति सोऽपि तथा । राजादिनेश्वरीकृतो यो लब्धसम्पत्तिरुपकारकारकराजादिविषये दुष्टान्तःकरणोऽन्तरायं करोति सोऽप्येवम् । यः पोषयितारं सेनापति राजानं वा ऽमात्य वा धर्मपाठकं वा विहिनस्ति सोऽप्येवम्, तन्मरणे बहुजनदुःस्थता प्रसङ्गात् । यो राष्ट्रस्य नायकं सति प्रयोजने निगमस्याशास्तारं बहुयशसं श्रेष्ठिनञ्च हन्ति स महामोहं विधत्ते । बहुजननायकं प्रावचनिकादिपुरुषं हेयोपादेयवस्तुस्तोमप्रकाशकं हत्वा महामोहं प्रकरोति । प्रविजिषु प्रव्रजितं संयतं सुसमाहितं व्रतचारित्रधर्माद्यो भ्रंशयति सोऽपि तथा । ज्ञानाद्यनेकातिशयसम्पन्नत्वेन भुवनत्रये प्रसिद्धान् जिनान् प्रत्यवर्णवादी यः सोऽपि तथा । न्यायमार्गस्य सम्यग्दर्शनादेढिष्टोऽपकरोति यः तथाऽन्यांश्च तत्र द्वेषेण वासयति स तथा । आचार्यो