________________
४८४
सूत्रार्थमुक्तावलिः भवतीत्येकः, मैथुनमतिक्रमव्यतिक्रमातिचारैस्त्रिभिः प्रकारैदिव्यादित्रिविधं सेवमानः शबलो भवतीति द्वितीयः, रात्रिभोजनं दिवागृहीतं दिवाभुक्तमित्यादिभिश्चतुर्भङ्गकैरतिक्रमादिभिश्च भुञ्जानः शबलः, आधाकर्म आधाय साधुप्रणिधानेन यत्तु सचेतनमचेतनं कियते अचेतनं वा पच्यते तदाधाकर्म भुञ्जानः शबलः, राजपिण्डो नृपाहारस्तद्भुञ्जानः शबलः क्रीतादि द्रव्यादिना क्रीतं साध्वर्थमुद्धारानीतं प्रामित्यं अनिच्छतोऽपि पुरुषादेः सकाशात् साधुदानाय गृहीतं नानुज्ञातं सर्वस्वामिभिः साधुदानाय स्वस्थानात् अभिमुखमानीय दीयमानञ्च भुञ्जानः शबलः । पुनः पुनः प्रत्याख्यातभुक्-अभीक्ष्णं प्रत्याख्यायाशनादि भुञ्जानः । गणान्तरसङ्क्रमण-षण्णां मासानामन्त एकतो गणादन्यं गणं संक्रामन् शबलो निरालम्बनत्वात् । व्यधिकोदकलेपकृत्मासस्यान्तः त्रीनुदकलेपान् कुर्वन, उदकलेपश्च नाभिप्रमाणजलावगाहनम् । मायास्थानत्रयकृत्मासस्य मध्ये त्रीणि मायास्थानानि तथाविधप्रयोजनमन्तरेणातिगढमातृस्थानानि कुर्वन् । सागारिकपिण्डभुक्-वसतिदाता सागारिकस्तत्पिण्डभोजी, आकुट्टिप्राणातिपातकृत्उपेत्य पृथिव्यादिकं हिंसन्नित्यर्थः । आकुट्ट्या मृषावादकृत्-तथाऽऽकुट्ट्याऽऽदत्तादानकृत् । आकुट्ट्यैवानन्तरितायां पृथिव्यां स्थानं वा नैषेधिकी वा चेतयन् कायोत्सर्ग स्वाध्यायभूमि वा कुर्वन् । आकुट्ट्यैव सचित्तसरजस्कायां पृथिव्यां सचित्तवत्यां शिलायां लेष्टौ वा कोलावासे दारुणि स्थानादि कुर्वन्, तथा तथैव सबीज़ादौ-बीजहरितनीहारादिसहिते स्थानादि कुर्वन् । मूलादिभुक्-मूलकन्दत्वक्प्रवालपत्रफलबीजहरितादीनां भोजनं कुर्वन् । दशोदक लेपकृत्-संवत्सरस्य मध्ये दश उदकलेपान् कुर्वन् । दशमायास्थानकृत्, वर्षस्यान्तर्दश मायास्थानानि कुर्वन् । शीतोदकेन व्यापारितेन हस्तेनागलबिन्दुना भाजनेन वा दीयमानं अशनादि भुञ्जानः ॥१८॥
અસમાધિવાળો જીવ - શબલ (ચારિત્રવાળો) વાળો બને છે. માટે હવે ૨૧ શબલ સ્થાનો बतावे छे.
જે ક્રિયા વિશેષો નિમિત્ત બનીને ચારિત્રને કાબરચીત બનાવી દે છે તે શબલ સ્થાન છે. અને તેના યોગથી સાધુપણ શબલ તરીકેના વ્યવહારને પામે છે તે સ્થાનો આ પ્રમાણે છે. - હસ્તકર્મ - (હસ્ત વગેરે સાધનો દ્વારા) વેદજનિત વિકાર વિશેષનો ઉપશમ કરતો કરાવતો કે અનુજ્ઞાત કરતો વ્યક્તિ શબલ બને છે. (પ્રથમ સ્થાન છે)
મૈથુન:- અતિક્રમ, વ્યતિક્રમ, અતિચારો દ્વારા ત્રણ પ્રકારે દેવ, મનુષ્ય, તિર્યંચ સંબંધિ ત્રણે 451२न! भैथुनने सेवनारी शव भने छ. (द्वितीय स्थान)