________________
समवायांगसूत्र
४७१
क्रमेण स्थापयन्ति, तत्रोत्पादपूर्वे-सर्वद्रव्याणां सर्वपर्यायाणाञ्चोत्पादमधिकृत्य प्ररूपणा क्रियते, तस्य पदपरिमाणमेका पदकोटी । अग्रायणीयं अग्रं परिमाणं तस्यायनं गमनं परिच्छेद इत्यर्थः, तस्मै हितमग्रायणीयं, सर्वद्रव्यादिपरिमाणपरिच्छेदकारीति भावार्थ:, तत्र हि सर्वद्रव्याणां सर्वपर्यांयाणां सर्वजीवविशेषाणाञ्च परिमाणमुपवर्ण्यते, तस्य पदपरिमाणं षण्णवतिपदशतसहस्राणि । वीर्यप्रवादं-तत्र सकर्मेतराणां जीवानामजीवानाञ्च वीर्यमुच्यते तस्य पदपरिमाणं सप्ततिपदशतसहस्राणि । अस्तिनास्तिप्रवादं तत्र यद्वस्तु लोकेऽस्ति धर्मास्तिकायादि, यच्च नास्ति खरश्रृङ्गादि तत्प्रवदति, अथवा सर्वं वस्तुस्वरूपेणास्ति पररूपेण नास्तीति प्ररूपणं क्रियते, तस्य पदपरिमाणं षष्टिः पदशतसहस्राणि । ज्ञानप्रवादं - मतिज्ञानादिभेदभिन्नं ज्ञानं, पंचप्रकारं सप्रपञ्चं वदति, तस्य पदपरिमाणं एका पदकोटी पदेनैकेन न्यूना । सत्यप्रवादं- सत्य संयमो वचनं वा तत्सत्यं संयमं वचनं वा प्रकर्षेण वदतीति सत्यप्रवादं तस्य पदपरिमाणं एका पदकोटी षड्भिः पदैरधिका । आत्मानं जीवमनेकधा नयमतभेदेन यत्प्रवदती - त्यात्मप्रवादं तस्य पदप्रमाणं षड्विंशतिपदकोट्यः । कर्मज्ञानावरणीयादिकमष्टप्रकारं प्रकृत्तिस्थित्यनुभागप्रदेशदिभेदैः सप्रपंचं वदतीति कर्मप्रवादं तस्य पदपरिमाणं एका कोटी अशीतिश्च षट् सहस्राणि । प्रत्याख्यानं सप्रभेदं यद्वदति तत्प्रत्याख्यानप्रवादं तस्य प्रमाणं चतुरशीतिपदलक्षाणि । विद्यामनेकातिशयसम्पन्नामनुप्रवदति साधनानुकूल्येन सिद्धिप्रकर्षेण चेति विद्यानुप्रवादं तस्य पदपरिमाणं एका पदकोटी दश च पदलक्षाः । वन्ध्यं निष्फलं न विद्यते यत्र तदवन्ध्यं, यत्र सर्वेऽपि ज्ञानतपः संयमादयः शुभफलाः सर्वे च प्रमादादयोशुभफला वर्ण्यन्ते, तस्य पदपरिमाणं षड्विंशतिपदकोट्यः । प्राणाः पञ्चेन्द्रियाणि त्रीणि मानसादीनि बलानि, उच्छ्वासनिःश्वासौ चायुश्च यत्र चैतानि सप्रभेदमुपवर्ण्यन्ते तदुपचारत: प्राणायुः, तस्य पदपरिमाणमेका पदकोटी षट्पञ्चाशच्च पदलक्षाणि । क्रिया: कायिक्यादयः संयमक्रियाछन्दःक्रियादयश्च ताभिः प्ररूप्यमाणाभिर्विशालं, क्रियाविशालम्, तस्य पदपरिमाणं नवपदकोट्यः । लोकबिन्दुसारं - लोके जगति श्रुतलोके वा अक्षरस्योपरि बिन्दुरिव सारं सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतुत्वाल्लोकबिन्दुसारम्, तस्य पदपरिमाणमर्द्धत्रयोदशपदकोट्यः ॥११॥
१३-१3 द्वियास्थानना खभाव माटे पूर्वनुं ज्ञान होय छे.. भाटे हवे ते (१४) पूर्वी उहे छे.
‘ઉત્પાદ” તીર્થંકર ભગવંતો તીર્થ પ્રવર્તન કાલમાં ગણધરોને સકલ શ્રુતના પદાર્થોનું અવગાહન ક૨વામાં સમર્થ જાણીને સહુપ્રથમ પૂર્વગત સૂત્રના અર્થો કહે છે. માટે (ઉપરોક્ત ૧૪ શાસ્ત્રોને)