SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४६६ सूत्रार्थमुक्तावलिः वेलात्रयस्योपरि न सम्भोग्यः, एवमुपधेः परिकर्म परिभोगं वा कुर्वन् सम्भोग्यो विसम्भोग्यश्चेति । साम्भोगिकस्यान्यसाम्भोगिकस्य वोपसम्पन्नस्य श्रुतस्य वाचनाप्रच्छनादिकं विधिना कुर्वन् तथा शुद्धः, तस्यैवाविधिनोपसम्पन्नस्यानुपसम्पन्नस्य वा पार्श्वस्थादेर्वा स्त्रिया वा वाचनादि कुर्वन् तथैव वेलात्रयोपरि विसम्भोग्यः । भक्तपानमुपधिद्वारवदवसेयम्, परन्तु भोजनं दानं च परिकर्म पीरभोगयोः स्थाने वाच्यमिति । साम्भोगिका नामन्यसाम्भोगिकानां वा संविग्नानां प्रणाममञ्जलिप्रग्रहं नमः क्षमाश्रमणेभ्य इति भणनं आलोचना सूत्रार्थनिमित्तनिषद्याकरणञ्च कुर्वन् शुद्धः पार्श्वस्थादेरेतानि कुर्वन् तथैव सम्भोग्यो विसम्भोग्यश्चेति । दानं, तत्र साम्भोगिकः साम्भोगिकाय अन्यसाम्भोगिकाय वा शिष्यगणं यच्छन् शुद्धः, निष्कारणं विसम्भोगिकस्य पार्श्वस्थादेर्वा संयत्या वा तं यच्छंस्तथैव सम्भोग्यो विसम्भोग्यश्चेति । निकाचनं छन्दनं निमंत्रणमित्यनन्तरम्, तत्र शय्योपध्याहारैः शिष्यगणप्रदानेन स्वाध्यायेन च साम्भोगिकः साम्भोगिकं निमंत्रयन् शुद्धः, शेषं तथैव । अभ्युत्थानमासनत्यागरूपम्, तत्राभ्युत्थानं पार्श्वस्थादेः कुर्वंस्तथैवासम्भोग्यः, अभ्युत्थानस्योपलक्षणत्वात् किंकरताञ्चप्राघूर्णकग्लानाद्यवस्थायां किं विश्रामणादि करोमीत्येवं प्रश्नलक्षणां, अभ्यासकरणंपार्श्वस्थादिधर्माच्च्युतस्य पुनस्तत्रैव संस्थापनलक्षणं, तथा अविभक्ति-अपृथग्भावलक्षणां कुर्वनशुद्धोऽसम्भोग्यश्चापि, एतान्येव यथाऽऽगमं कुर्वन् शुद्धः संभोग्यश्चेति । कृतिकर्म-वंदनं विधिना कुर्वन् शुद्धः, इतरथा तथैवासम्भोग्यः । तत्र चायं विधि:-यः साधुर्वातेन स्तब्धदेह उत्थानादिकर्तुमशक्तः स सूत्रमेवास्खलितादिगुणोपेतमुच्चारयति, एवमावर्त्तशिरोनमनादि यच्छक्नोति तत्करोत्येवं चाशठप्रवृत्तिर्वन्दनविधिरिति भावः । वैयावृत्त्यं-आहारोपधिदानादिना प्रश्रवणादिमात्रकार्पणादिनाऽधिकरणोपशमनेन सहायदानेन वोपष्टम्भकरणं तस्मिंश्च विषये सम्भोगासम्भोगौ भवतः । समवसरणं-जिनस्नपनरथानुयानपट्टयात्रादिषु यत्र बहवः साधवो मिलन्ति तत्समवसरणम्, इह च क्षेत्रमाश्रित्य साधूनां साधारणोऽवग्रहो भवति वसतिमाश्रित्य साधारणोऽसाधारणश्चेति, अनेन चान्येऽप्यवग्रहा उपलक्षिताः, ते चानेके-यथा वर्षावग्रहः ऋतुबद्धावग्रहो वृद्धवासावग्रहश्चेति, एकैकश्चायं साधारणावग्रहः प्रत्येकावग्रहश्चेति द्विधा, तत्र यत् क्षेत्रं वर्षाकल्पाद्यर्थं युगपद् व्यादिभिः साधुभिभिन्नगच्छस्थैरनुज्ञाप्यते स साधारणी यत्तु क्षेत्रमेके साधवोऽनुज्ञाप्याश्रिताः स प्रत्येकावग्रह इति, एवं चैतेष्ववग्रहेषु आकुट्टयाऽनाभाव्यं सचित्तं शिष्यमचित्तं वा वस्त्रादि गृह्णन्तोऽनाभोगेन च गृहीतं तदनर्पयन्तः समनोज्ञा अमनोज्ञाश्च प्रायश्चित्तिनो भवन्त्यसम्भोग्याश्च, पार्श्वस्थादीनां चावग्रह एव नास्ति तथापि यदि तत् क्षेत्रं
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy