SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४६३ समवायांगसूत्र प्रतिमाप्रकरणेऽप्यत्र तद्वतोऽभिधानमभेदोपचारात्, एवमुत्तरत्रापि, सम्यग्दर्शनस्य शङ्कादिशल्यरहितस्याणुव्रतादिगुणविकलस्य योऽभ्युपगमः मासं यावत्, सा प्रतिमा प्रथमा, सम्यग्दर्शनादिप्रतिपत्तिश्चास्य पूर्वमप्यासीत् केवलमिह शंकादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्युपगमेन च प्रतिमात्वम् । कृतव्रतकर्मा-येनाणुव्रतादीनां श्रवणज्ञानवाञ्छाप्रतिपत्तिद्धिमासपर्यन्तं कृता स प्रतिपन्नदर्शनः कृतव्रतकर्मा, प्रतिपन्नाणुव्रतादिरिति भाव इतीयं द्वितीया । कृतसामायिकः येन देशतः सावद्ययोगपरिवर्जननिरवद्ययोगासेवनस्वभावं सामायिकं विहितं स कृतसामायिकः, तदेवं प्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनमुभयसंध्यं मासत्रयं यावत्सामायिककरणमिति तृतीया प्रतिमा । पोषं-पुष्टि धत्ते कुशलधर्माणां यदाहारत्यागादिकमनुष्ठानं तत्पौषधं तेनोपवसनम्अवस्थानं अहोरात्रं यावदिति पौषधोपवासः, यद्वा पौषधं पर्वदिनमष्टम्यादि, तत्रोपवास:अभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्य आहारशरीरसत्कारा ब्रह्मचर्यव्यापारपरिवर्जनेष्विति, तत्र कृतपौषधोपवास: पौषधोपवासे निरतः-आसक्तः इत्यर्थः, एवंविधश्रावकस्य चतुर्थी प्रतिमा, अयमत्र भाव: पूर्वप्रतिमात्रयोपेतः अष्टमीचतुर्दश्यमावास्यापौर्णमासीष्वाहारपौषधादि चतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरो मासान् यावच्चतुर्थी प्रतिमा भवतीति । तथा पञ्चमीप्रतिमायामष्टम्यादिषु पर्वस्वेकरात्रिकप्रतिमाकारी भवति, तथा शेषदिनेषु कृतरात्रिपरिमाणः रात्रौ कृतं स्त्रीणां तद्भोगानां वा परिमाणं-प्रमाणं येन तथाविधः, दिवा तु ब्रह्मचारी, अयम्भावः दर्शनव्रतसामायिकाष्टम्यादिपौषघोपेतस्य पर्वस्वेकरात्रिक प्रतिमाकारिणः शेषदिनेषु दिवा ब्रह्मचारिणो रात्रावब्रह्मपरिमाणकृतोऽस्नानस्यारात्रिभोजिनोऽबद्धकच्छस्य पञ्च मासान् यावत् पञ्चमी प्रतिमा भवति । प्रकटप्रकाशभुक्, न निशायामत्ति किन्तु प्रकटे प्रकाशे दिवा अशनाद्यभ्यवहरति, अयम्भावः प्रतिपञ्चकोक्तानुष्ठानयुक्तस्य ब्रह्मचारिणः षण्मासान् यावत् षष्ठीप्रतिमा भवतीति । सचित्तपरिज्ञातः सचेतनाहारः परिज्ञातः तत्स्वरूपपरिज्ञानात् प्रत्याख्यातो येन सः सचित्तपरिज्ञातः श्रावकः, पूर्वोक्तप्रतिमाषट्कानुष्ठानयुक्तस्य प्रासुकाहारस्य सप्त मासान् यावत्सप्तमी प्रतिमा भवतीति । आरम्भपरिज्ञातः, आरम्भः पृथिव्याधुपमर्दनलक्षणः परिज्ञातः तथैव प्रत्याख्यातः येनासौ, समस्तपूर्वोक्तानुष्ठानयुक्तस्यारम्भवर्जनमष्टौ मासान् यावदष्टमीप्रतिमेति । प्रेष्यपरिज्ञातः, प्रेष्या आरम्भेषु व्यापारणीयाः परिज्ञाताः तथैव प्रत्याख्याता येन सः, पूर्वोक्तानुष्ठानवत आरम्भं परैरप्यकारयतो नवमासान् यावन्नवमी प्रतिमा भवतीति । उद्दिष्टभक्तपरिज्ञात:-तमेव श्रावकमुद्दिश्य
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy