________________
स्थानांगसूत्र
अथवा स्वलक्षणकारणहेतुदोषाणामन्यथा व्याख्यानं कार्य - यथा लक्षणदोषोऽसंभवोऽव्याप्तिरतिव्याप्तिर्वा, तत्र यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदः तत्स्वलक्षणमिति स्वलक्षणस्य लक्षणं तदिन्द्रियप्रत्यक्षमेवाश्रित्य स्यान्न योगिज्ञानं तत्र हि न सन्निधानासन्निधानाभ्यां प्रतिभासभेदोऽस्तीत्यतस्तदपेक्षया न किञ्चित्स्वलक्षणं स्यादिति अव्याप्तेरुदाहरणम्,अतिव्याप्तिर्यथा-अर्थोपलब्धिहेतुः प्रमाणमिति प्रमाणलक्षणं, इह चार्थोपलब्धिहेतुभूतानां चक्षुर्दध्योदनभोजनादीनामानन्त्येन प्रमाणेयत्ता न स्यात्, यद्वा लक्ष्यतेऽनेनेति व्युत्पत्त्या दृष्टान्तो लक्षणं तद्दोषः साध्यविकलत्वादिः, नित्यः शब्दो मूर्त्तत्वात्, घटवदिति साध्यविकलत्वम् । कारण दोषः साध्यं प्रति तद्व्यभिचार:, यथाऽपौरुषेयो वेदो वेदकारणस्याश्रूयमाणत्वादिति, अश्रूयमाणत्वं हि कारणान्तरादपि सम्भवतीति । हेतुदोषोऽसिद्धविरुद्धानैकान्तिकत्वलक्षणः, तत्रासिद्धः, अनित्यः शब्दश्चाक्षुषत्वाद्धटवदिति, अत्र हि चाक्षुषत्वं शब्दे न सिद्धम् विरुद्धो यथा नित्यश्शब्दः कृतकत्वाद्धटवदित्यत्र घटे कृतकत्वं नित्यत्वविरुद्धमनित्यत्वमेव साधयति,अनैकान्तिको यथा नित्यः शब्दः प्रमेयत्वादाकाशवदित्यत्र प्रमेयत्वमनित्येष्वपि वर्त्तते, ततः संशय एवेति । संक्रामणं प्रस्तुतप्रमेयेऽप्रस्तुतप्रमेयस्य प्रवेशनं प्रमेयान्तरगमनमित्यर्थः, अथवा प्रतिवादिमते आत्मनः संक्रामणं परमताभ्यनुज्ञानमित्यर्थः, तदेव दोष इति । निग्रहः - छलादिना पराजयस्थानं स एव दोष इति । वसतः साध्यधर्मसाधनधर्मावत्रेति वस्तुप्रकरणात् पक्षः, तस्य दोष:-प्रत्यक्षनिराकृतत्वादिः, यथाऽ श्रावणः शब्दः, अत्र शब्देऽश्रावणत्वं प्रत्यक्षनिराकृतमिति ॥२२९॥
४१५
અવિરતિ વગેરે દોષો શસ્ત્રરૂપ છે, એમ કહ્યું, માટે દોષના પ્રસ્તાવથી દોષ વિશેષના નિરૂપણ માટે કહે છે.
દશ પ્રકારે દોષ કહેલા છે.
(१) तभ्भत घोष (२) भति भंग होष ( 3 ) प्रशास्तृ घोष (४) परिहरएा घोष (4) स्व लक्षए। घोष (६) अरए। घोष (७) हेतु घोष (८) संम्भा घोष (८) निग्रह घोष तथा (१०) वस्तु घोष...
આ દોષો ગુરૂ અને શિષ્યના અથવા વાદિ અને પ્રતિવાદીના વાદનો આશ્રય લઇને થતાં હોય છે. તેમાં
(૧) તજ્જાત :- ગુરૂ વિગેરેની જાતિ અથવા જન્મ, મર્મ કર્માદિ સ્વરૂપ તેમાં જે દૂષણ તે તજ્જાત તે જ દૂષણ છે એ પ્રમાણે કરીને જે દોષ થાય તે તજ્જાત દોષ... અર્થાત્ તેવા પ્રકારના