________________
४१४
अथ स्थानमुक्तासरिका भून... (८) हुष्प्रयुक्त l अथात् २ ईशल क्यन... (८) हुष्प्रयुत आया अर्थात् दुशल शरीर.... &िसानी प्रवृत्तिमi तपा२ महिना ७५४२९॥ ३५ डोवाथी यार्नु । छ. (१०) અવિરતિ = પચ્ચખાણ રહિતતા - અપ્રત્યાખ્યાન. ll૨૨૮.
अविरत्यादेर्दोषत्वात्तत्प्रस्तावाद्दोषचिशेषानाह
तज्जातमतिभङ्गप्रशास्तृपरिहरणकारणस्वलक्षणहेतुसंक्रमणनिग्रहवस्तुदोषा दोषाः ॥२२९॥
तज्जातेति, एते हि दोषा गुरुशिष्ययोर्वादिनोर्वा वादाश्रया इव लक्ष्यन्ते तस्य गुर्वादेर्जात-जातिः प्रकारो वा जन्ममर्मकर्मादिलक्षणं तज्जातं तदेव दूषणमिति कृत्वा दोषस्तज्जातदोषः तथाविधकुलादिना दूषणमित्यर्थः, अथवा प्रतिवाद्यादेः सकाशाज्जातः क्षोभान्मुखस्तम्भादिलक्षणो दोषस्तजातदोषाः । निजमतेविनाशः विस्मृत्यादिलक्षणो वा दोषो मतिभङ्गदोषः । प्रशास्ताअनुशासकः मर्यादाकारी सभानायकः सभ्यो वा, तस्माद्दिष्टादुपेक्षकाद्वा दोषः प्रतिवादिनो जयदानलक्षणो विस्मृतप्रमेयवादिनः प्रमेयस्मारणादिलक्षणो वा प्रशास्तृदोषः । परिहरणमासेवा स्वदर्शनस्थित्या लोकरूढ्या वा अनासेव्यस्य, तदेव दोषः परिहरणदोषः, अथवा सभारूढया सेव्यस्य वस्तुनोऽनासेवनं परिहरणं तदेव तस्माद्वा दोषः, यद्वा वादिनोपन्यस्तस्य दूषणस्य सम्यक्परिहारो जात्युत्तरं परिहरणदोष इति, यथा बौद्धेनोक्तमनित्यः शब्दः कृतकत्वाद्धटवदिति, अत्र मीमांसकः परिहारमाह-ननु घटगतं कृतकत्वं शब्दस्यानित्यत्वसाधनायोपन्यस्यते शब्दगतं वा, आद्येऽसिद्धता, हेतोः शब्देऽभावात्, द्वितीये चानित्यत्वेन तद्व्याप्तमुपलब्धमित्यसाधारणानैकान्तिको हेतुरिति, अयं न सम्यक् परिहारः, सर्वानुमानोच्छेदप्रसङ्गात्, अनुमानं हि साधनधर्ममात्रात् साध्यधर्ममात्रनिर्णयात्मकम्, अन्यथा धूमादनलानुमानमपि न सिद्धयेत्, तथाहि अग्निरत्र धूमात्, यथा महानसे इति अत्रापि विकल्प्यते किं पर्वतगतो धूमो हेतुरुत महानसगतः, आद्ये नाग्निना धूमस्य व्याप्तिः सिद्धत्यसाधारणानैकोन्तिको हेतुः, द्वितीयेऽसिद्धः पर्वते तस्यावृत्तेरिति, अयं परिहरणदोषः । लक्ष्यते तदन्यव्यपोहेनावधार्यते वस्त्वनेनेति लक्षणं स्वं च तल्लक्षणञ्च स्वलक्षणं यथा जीवस्योपयोगः, यथा वा प्रमाणस्य स्वपरावभासकज्ञानत्वम् । करोतीति कारणं-परोक्षार्थनिर्णयनिमित्तमुपपत्तिमात्रं यथा निरुपमसुख: सिद्धो अनाबाधज्ञानप्रकर्षात्, नात्र किल सकललोकप्रतीतः साध्यसाधनधर्मानुगतो दृष्टान्तोऽस्तीत्युपपत्तिमात्रता । दृष्टान्तसद्भावेऽस्यैव हेतुव्यपदेशः स्यात्, हिनोति गमयतीति हेतुः साध्यसद्भावभावतदभावतदभावाभावलक्षणः,