________________
४००
अथ स्थानमुक्तासरिका
स्योत्पादव्ययध्रौव्यलक्षणा पदत्रयी तस्या अनुयोगो यथा उत्पादवज्जीवद्रव्यं बाल्यादिपर्यायाणामनुक्षणमुत्पत्तिदर्शनात्, अनुत्पादे च वृद्धाद्यवस्थानामप्राप्तिप्रसङ्गादसमञ्जसापत्तेः, तथा व्ययवज्जीवद्रव्यं प्रतिक्षणं बालाद्यवस्थानां व्ययदर्शनादव्ययत्वे च सर्वदा बाल्यादिप्राप्तेरसमञ्जसमेव, तथा यदि सर्वथाप्युत्पादव्ययवदेव तन्न केनापि प्रकारेण ध्रुवं स्यात्तदाऽकृताभ्यागमकृतविप्रणाशप्राप्त्या पूर्वदृष्टानुस्मरणाभिलाषादिभावानामभावप्रसङ्गेन च सकलेहलोकपरलोकालम्बनानुष्ठानानामभावतोऽसमञ्जसमेव ततो द्रव्यतयाऽस्य ध्रौव्यमित्युत्पादव्ययध्रौव्ययुक्तमतो द्रव्यमित्यादिमातृकापदानुयोगः । एकश्चासावर्थश्चाभिधेयो जीवादिः स एषामस्ति त एकार्थिकाः शब्दास्तैरनुयोग: कथनमित्यर्थः, एकार्थिकानुयोगो यथा जीवद्रव्यं प्रति जीवः प्राणीभूतः सत्त्व इत्यादि । एकाथिकानां वाऽनुयोगो यथा जीवनात् प्राणधारणाज्जीवः, प्राणानामुच्छासादीनामस्तित्वात् प्राणी, सर्वदा भवनाद्भूतः, सर्वदा सत्त्वात्सत्त्व इत्यादि । क्रियत एभिरिति करणानि, तेषामनुयोगः करणानुयोगः, तथा हिजीवद्रव्यस्य कर्तुविचित्रक्रियासु साधकतमानि कालस्वभावनियतिपूर्वकृतानि, नैकाकी जीवः किञ्चन कर्तुमलमिति । मृद्रव्यं वा कुलालचक्रचीवरदण्डादिकं कारणकलापमन्तरेण न घटलक्षणं कार्यं प्रति घटत इति तस्य तानि करणानीति द्रव्यस्य करणानुयोगः । द्रव्यं ह्यपितं विशेषितं यथा जीवद्रव्यं किंविधं ? संसारीति, संसार्यपि त्रसरूपं तदपि पञ्चेन्द्रियं तदपि नररूपमित्यादि, अनर्पितमविशेषितमेव, यथा जीवद्रव्यमिति ततश्चार्पितञ्च तदनर्पितञ्चेत्यर्पितानर्पितं द्रव्यं भवतीति द्रव्यानुयोगः । तथा भावितं-वासितं द्रव्यान्तरसंसर्गतः, अभावितमन्यथैव । यथा जीवद्रव्यं भावितं किञ्चित्, तच्च प्रशस्तभावितमितरभावितञ्च, प्रशस्तभावितं संविग्नभावितमप्रशस्तभावितमितरभावितम् । तद्विविधमपि वामनीयमवामनीयञ्च, तत्र वामनीयं यत्संसर्गजं गुणं दोषं वा संसर्गान्तरेण वमति, अवामनीयन्त्वन्यथा, अभावितं त्वसंसर्गप्राप्तं प्राप्तसंसर्ग वा वज्रतन्दुलकल्पं न वासयितुं शक्यमिति, एवं घटादिकं द्रव्यमपि, ततश्च भावितं चाभावितञ्च भाविताभावितमेवंभूतो विचारो द्रव्यानुयोग इति । बाह्याबाह्यम्, तत्र जीवद्रव्यं बाह्यं चैतन्यधर्मेणाकाशास्तिकायादिभ्यो विलक्षणत्वात् तदेवाबाह्यममूर्त्तत्वादिना धर्मेणामूर्त्तत्वादुभयेषामपि, चैतन्येन वाऽबाह्यं जीवास्तिकायात्, चैतन्यलक्षणत्वादुभयोरपि, अथवा घटादिद्रव्यं बाह्यं कर्मचैतन्यादित्वबाह्यमाध्यात्मिकमिति यावत्, एवमन्यो द्रव्यानुयोगः । शाश्वताशाश्वतम्, तत्र जीवद्रव्यमनादिनिधनत्वाच्छाश्वतम्, तदेवापरापरपर्यायप्राप्तितोऽशाश्वतमित्येवमन्यो द्रव्यानुयोगः । यथा वस्तु तथा ज्ञानं यस्य