________________
३९६
अथ स्थानमुक्तासरिका
तिरश्चामस्वाध्यायिकं द्रव्यतोऽस्थिमांसशोणितानि चर्म च, क्षेत्रतः षष्टिहस्ताभ्यन्तरे, कालतः सम्भवकालाद्यावत्तृतीया पौरुषी मार्जारादिभिर्मूषिकादिव्यापादनेऽहोरात्रञ्च, भावत: सूत्रं नन्द्यादिकं नाध्येतव्यमिति, मनुष्यसम्बन्ध्यप्येयमेव, नवरं क्षेत्रतो हस्तशतमध्ये कालतोऽहोरात्रं यावत्, आर्तवं दिनत्रयं, स्त्रीजन्मनि दिनाष्टकं पुरुषजन्मनि दिनसप्तकम्, अस्थीनि तु जीवविमोक्षदिनादारभ्य हस्तशताभ्यन्तरस्थितानि द्वादशवर्षाणि यावदस्वाध्यायिकं भवति, चिताग्निना दग्धान्युदकवाहेन वा व्यूढान्यस्वाध्यायिकं न भवति, भूमिनिखातान्यस्वाध्यायिकमिति । अशुचीन्यमेध्यानि मूत्रपुरीषाणि, तेषां समीपमस्वाध्यायिकं भवति । श्मशानसमीपं-शवस्थानसमीपम्, चन्द्रग्रहणं-चन्द्रविमानस्य राहुविमानतेजसोपरञ्जनमेवं सूर्यग्रहणमपी, इह कालमानञ्च-यदि चन्द्रः सूर्यो वा ग्रहणे सति सग्रहोऽन्यथा वा निमज्जति तदा ग्रहणकालं तद्रात्रिशेषं तदहोरात्रशेषञ्च ततः परमहोरात्रञ्च वर्जयन्ति । आचरितन्तु यदि तत्रैव रात्रौ दिने वा मुक्तः तदा चन्द्रग्रहणे तस्या एव रात्रेः शेषं परिहरन्ति, सूर्यग्रहणे तु तद्दिनशेषं परिहृत्यानन्तरं रात्रिमपि परिहरन्तीति । चन्द्रसूर्योपरागयोश्चौदारिकत्वं तद्विमानपृथिवीकायिकापेक्षयाऽवसेयमान्तरीक्षकत्वन्तु सदपि न विवक्षितम् । पतनं-मरणं राजामात्यसेनापतिग्रामभोगिकादीनाम्, तत्र यदा दण्डिकः कालगतो भवति राजा वाऽन्यो यावन्न भवति तदा समयेऽनिर्भये स्वाध्यायं वर्जयन्तीति निर्भयश्रवणानन्तरमपि अहोरात्रं वर्जयन्तीति ग्राममहत्तरेऽधिकारनियुक्ते बहुस्वजने वा शय्यान्तरे वा पुरुषान्तरे वा सप्तगृहाभ्यन्तरमृतेऽहोरात्रं स्वाध्यायं वर्जयन्ति शनैर्वा पठन्ति, निर्दुःखा एते इति गहाँ लोको मा कार्षीदिति । राजविग्रहो-राज्ञां सङ्ग्रामः, उपलक्षणत्वात्सेनापतिग्रामभोगिकमहत्तरपुरुषस्त्रीमल्लयुद्धान्यस्वाध्यायिकम्, यत एते प्रायो व्यन्तरबहुलास्तेषु प्रमत्तं देवतां छलयेन्निर्दुःखा एते इत्युड्डाहो वाऽप्रीतिकं वा भवेदित्यतो यद्विग्रहादिकं यच्चिरकालं यस्मिन् क्षेत्रे भवति तत्र विग्रहादिके तावत्कालं तत्र क्षेत्रे स्वाध्यायं परिहरन्ति । वसति मध्यगशरीराणि-उपाश्रयस्य मध्ये वर्तमानमौदारिकं मनुष्यादिसत्कं शरीरं यद्यद्भिन्नं भवति तदा हस्तशताभ्यन्तरेऽस्वाध्यायिक भवति, अथानुद्भिन्नं तथापि कुत्सितत्वादाचरितत्वाच्च हस्तशतं वय॑ते, परिष्ठापिते तु तत्र तत्स्थानं शुद्धं भवतीति ॥२२०।।
ફરી પણ અસ્વાધ્યાય કાલને કહે છે.
ઔદારિક મનુષ્ય અને તિર્યંચના શરીર સંબંધી અસ્વાધ્યાયકાળ કહે છે. અસ્વાધ્યાયમાં निमित्तभूत मौहरि शरीर छ. तेम (१) 81351, (२) मांस, (3) दोही प्रसिद्ध छे. तेमां