________________
३६६
अथ स्थानमुक्तासरिका જેમાં ક્રિયા કરાય તે સંનિધાન કે આધાર તેમાં સપ્તમી વિભક્તિ થાય છે. વિષયના ઉપલક્ષણથી કાળ, ભાવરૂપ ક્રિયા વિશેષણ (ક્રિયા વિષયોમાં પણ સપ્તમી થાય છે. દા.ત. संनिपानमi (आधारमा) - मो४ मा पात्रमा छ.
શરદઋતુમાં સપ્તચ્છદનું વન ખીલે છે. અહીં ખીલવાની ક્રિયા શરદ (કાલ) ઋતુ વડે વિશેષિત કરાયેલ છે. તેનું કુટુંબ ગાય દોહતે છતે ગયું. અહીં જવાની ક્રિયા ગોદોહનરૂપ ભાવ વડે વિશેષિત કરાયેલ છે.
આમંત્રણમાં પ્રથમ વિભક્તિ થાય છે. આ વિભક્તિ આમંત્રણ સ્વરૂપ અર્થને, કર્મ, કરણાદિની જેમ લિંગાથે માત્રથી ભિન્ન પ્રતિપાદકપણાએ કરીને અષ્ટમી વિભક્તિ કહી છે. દા.ત. के युवन् ! त्याहि. ॥१८७।।
विशिष्टवचनरचनायाः शास्त्रत्वात्तद्विशेषायुर्वेदविभागमाह
कुमारभृत्यदेहचिकित्साशालाक्यशल्यहत्याजागुलिभूतविद्याक्षारतन्त्ररसायनतन्त्रभेदा आयुर्वेदाः ॥१९८॥
कुमारभृत्येति, आयुर्जीवितं तद्विदन्ति रक्षितुमनुभवन्ति चोपक्रमरक्षणे विदन्ति वा लभन्ते यथाकालं तेन तस्मात्तस्मिन् वेत्यायुर्वेदश्चिकित्साशास्त्रं तदष्टविधम्, यथा कुमारभृत्यंबालकानां पोषणे योग्यं तद्धि तन्त्रं कुमारभरणक्षीरदोषसंशोधनाय दुष्टशून्यनिमित्तानां व्याधीनामुपशमनार्थञ्च भवति । देहचिकित्सा ज्वरादिरोगग्रस्तस्य देहस्य चिकित्साप्रतिपादकं तन्त्रम्, तद्धि मध्याङ्गसमाश्रितानां ज्वरातीसाररक्तशोफोन्मादप्रमेहकुष्ठादीनां शमनार्थमिति । शलाकायाः कर्म शालाक्यं तत्प्रतिपादकं तन्त्रमेतद्धि ऊर्ध्ववक्रगतानां रोगाणां श्रवणवदननयनघ्राणादिसंश्रितानामुपशमनार्थमिति । शल्यस्योद्धारः शल्यहत्या, तत्प्रतिपादकं तन्त्रमपि तथा, तत्तृणकाष्ठपाषाणपांसुलोहलोष्टास्थिनखप्रायानान्तर्गतशल्योद्धरणार्थम् । जागुलीति विषविघाततन्त्रम्, तद्धि सर्पकोटलूतादष्टविषनाशनार्थं विविधविषसंयोगोपशमनार्थञ्च । भूतादीनां निग्रहार्थं विद्या भूतविद्या सा हि देवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्मबलिकरणादिग्रहोपशमनार्था, क्षरणं क्षारः शुक्रस्य, तद्विषयं तन्त्रं क्षारतन्त्रमिदं हि सुश्रुतादिषु वाजीकरणतन्त्रमुच्यते, अवाजिनो वाजीकरणं रेतोवृद्धयाऽश्वस्येव करणमित्यनयोः शब्दार्थः सम एवेति, तत्तन्त्रं ह्यल्पक्षीणविशुष्करेतसामाप्यायनप्रसादोपजनननिमित्तमिति । रसोऽमृतरसस्तस्य प्राप्तिः रसायनम्, तद्धि वयःस्थापनमायुर्मेधाकरणं रोगापहरणसमर्थञ्च तत्प्रतिपादकं शास्त्रं रसायनतन्त्रमिति ॥१९८॥