________________
स्थानांगसूत्र
३१
प्रदेशार्थतयाऽसंख्यातप्रदेशात्मकोऽपि द्रव्यार्थतयैकरूप इति भावः
अथात्मनो लोकवृत्तैः सदण्डस्य सक्रियस्य कर्मबन्धाद्बन्धमाश्रित्य सङ्ग्रहमाह बन्धमोक्षेति, सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते यस्मात्स बन्धः, स च प्रकृतिस्थितिप्रदेशानुभावभेदाच्चतुर्विधोऽपि बन्धसामान्यादेकं इत्यर्थः, ननु बन्धो जीवस्य कर्मणा सयोगः, स किं सादिरादिरहितो वा, प्रथमे किं पूर्वं जीवः पश्चात्कर्म प्रसूयते, किं वा पूर्वं कर्म पश्चाज्जीवः, अथवा द्वावपि युगपत् । तत्र न प्रथमं जीवसम्भूतिः, निर्हेतुकत्वात्, खरविषाणवत्, जीवस्य नित्यत्वेऽपि कर्मबन्धो न स्यादकारणत्वाद्गगनवत्, यदि तु निष्कारणमेव भवेत् स्यान्मुक्तस्यापि पुनः सः, कर्मयोगाभावे च नित्यमुक्त एव स्यात्, अथवा बन्धाभावे मुक्तताव्यपदेशोऽपि न स्यात्, न द्वितीयः, जीवस्य कर्त्तुस्तदानीमभावात् पूर्वं कर्म न भवेदक्रियमाणत्वात् कर्त्रभावेऽपि तस्य भावे विनाशोऽपि तथैव भवेत् नापि तृतीयः, युगपदुत्पन्नयोः कार्यकारणभावाभावेन जीवः कर्त्ता ज्ञानावरणादिकं तस्य कर्मेति व्यपदेशो न स्यात् । कर्मणश्चानादित्वे मोक्षो न स्यात्, अनादित्वस्यानन्तत्वव्याप्यत्वात्, तस्मानास्ति बन्धो मोक्षो वेति चेदुच्यते सादिपक्षोऽनभ्युपगमान्निरस्तः, अनादिपक्षस्याश्रयणात्, अनादित्वस्यानन्तत्वव्याप्यत्वे मानाभावात्, काञ्चनोपलयोः संयुक्तयोः सान्तत्वदर्शनात्, बीजाङ्कुरसन्तानस्य तन्मध्यगतस्यैकस्य दाहादिना विनाशे च सान्ततादर्शनात्, तथैव जीवकर्मसंयोगोऽनादिसन्तानगतोऽपि तपः संयमाद्युपायाद्व्यवच्छिद्यतेऽतो न मोक्षाभावः, एवमनादिजीवकर्मयोगः कथञ्चिदनन्तः यथाऽभव्यानाम्, कथञ्चित्सान्तो यथा भव्यानाम् । जीवत्वसाम्येऽपि हि भव्याभव्यत्वविशेषो नरकतिर्यगादिविशेष इव भविष्यतीति न वक्तव्यम्, द्रव्यत्वादिसामान्येऽपि यथा चेतनाचेतनभेदः, स्वभावतस्तथा भव्याभव्यत्वभेदोऽपि, न चैवं जीवत्ववद्भव्यत्वस्याविनाशित्वं स्यात्तथा च सति न निर्वाणम्, सिद्धो न भव्यो नाप्यभव्य इति वचनादिति वाच्यम्, घटप्रागभावस्यानादिस्वभावत्वेऽपि घटोत्पत्तौ विनाश इव ज्ञानतपश्चरणक्रियोपायतो भव्यत्वस्यापि विनाशसम्भवादिति । कर्मपाशवियोजनं मोक्षः, स च ज्ञानावरणादिकर्मापेक्षयाऽष्टविधोऽपि मोचनसामान्यादेकः, मुक्तस्य पुनर्मोक्षाभावात्, कारणस्य कर्मणोऽभावात्, द्रव्यत्वे सत्यमूर्त्तत्वाद्वा गगनवन्नित्यो मुक्तात्मा, न चामूर्त्तद्रव्यत्वादाकाशवन्निष्क्रियत्वं वक्तव्यम्, चेतनत्ववत्सक्रियत्वस्य तदानीमप्यङ्गीकारे बाधकाभावादन्यथा चेतनत्वमपि न स्यादिति मोक्षस्य पुण्यपापक्षयाद्भावात्पुण्यपापयोः सङ्ग्रहमाह - पुण्यपापेति, पुति शुभक पुनाति वा पवित्रीकरोत्यात्मानमिति पुण्यम्, सद्वेद्यादिशुभकर्म द्विचत्वारिंशद्विधमपि पुण्यानुधपापानुबन्धिभेदेन द्विविधमपि प्रतिप्राणिविचित्रत्वादनन्तभेदमपि वा पुण्यसामान्यादेकम्,