SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ३० अथ स्थानमुक्तासरिका आत्मन आधारप्रदर्शनमुखेनाजीवानामेकानेकत्वं तथैव दर्शयतिलोकालोकधर्माधर्मबन्धमोक्षपुण्यपापास्त्रवसंवरवेदनानिर्जरा अप्येकरूपाः सामान्यात् ॥४॥ लोकेति, धर्माधर्मास्तिकायव्यवच्छिन्नो निखिलद्रव्याधारभूत आकाशविशेष:, आकाशस्तु लोकरूपोऽलोकरूपश्च, तत्र चतुर्दशरज्जुप्रमाणो लोकोऽसंख्यातप्रदेशात्मकोऽपि तत्प्रदेशाविवक्षया द्रव्यार्थतया वैकरूपः, अलोकश्चानन्तप्रदेशात्मकोऽपि तत्प्रदेशाविवक्षया द्रव्यार्थत्तया वैकः । अथवा नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यवभेदेनाष्टधा, नामस्थापने, प्रसिद्धे, द्रव्यलोको जीवाजीवरूप:, क्षेत्रलोकोऽ ऽनन्तप्रदेशात्मकमाकाशमात्रम्, काललोकः समयावलिकादि, भवलोकः, स्वस्मिन् स्वस्मिन् भवे वर्त्तमाना नारकदेवमनुष्यतिर्यग्योनिकाः सत्त्वाः भावलोक औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकरूपः पर्यवलोकश्च पर्यायमात्रम्, एतेषामेकत्वन्तु केवलज्ञानावलोकनीयत्वसामान्यात् । ननु निखिलद्रव्याधारभूताकाशसद्भावे किं मानमिति चेन्न, अस्त्याकाशम्, जीवादिपदार्थानां साधारत्वान्यथानुपपत्तेरिति मानसद्भावात्, न च धर्माधर्मास्तिकायावेव तदाधारौ, तयोस्तद्गतिस्थितिसाधकत्वात्, न चान्यसाध्यं कार्यमन्यः साधयत्यतिप्रसङ्गात्, अयमाकाशास्तिकायः सर्वद्रव्याणां साधारणावकाशदाता लोकालोकप्रकारेणोच्यते, स च सावयवः प्रदेशव्यवहारस्य तत्र दर्शनात्, न चायं व्यवहारो मिथ्या, तन्निमित्तस्याभावात् । ननु लोकैकदेशस्य प्रत्यक्षत्वात्तद्देशान्तरमपि स्याद्बाधकप्रमाणशून्यत्वात्, अलोकस्तु कथं स्यात्तस्य देशतोऽप्यप्रत्यक्षत्वादिति चेन्न, अस्ति लोकस्य विपक्षो व्युत्पत्तिमच्छुद्धपदाभिधेयत्वात्, यद्व्युत्पत्तिमता शुद्धशब्देनाभिधीयते तस्य विपक्षोऽस्ति तथा घटस्याघट:, लोकश्च व्युत्पत्तिमच्छुद्ध-पदाभिधेयः, तस्मात्सविपक्षः, यश्च लोकस्य विपक्ष: सोऽलोक इति तत्सिद्धेः । न चालोको घटादिरेव भवेत् किं वस्त्वन्तरेणेति वाच्यम्, लोकानुरूपस्यैवालोकस्याऽऽ ऽऽवश्यकत्वात्, निषेध्यसदृशस्यैव पर्युदासनञाबोधात् । यथाऽपण्डित इत्युक्ते विशिष्टज्ञानविकलश्चेतन एव गम्यते न घटादिः । धर्माधर्मेति, धर्मास्तिकायोऽधर्मास्तिकायश्चेति भाव, जीवपुद्गलानां स्वभावत एव गतिस्थितिपरिणतानामपेक्षाकारणं धर्मास्तिकायोऽधर्मास्तिकायश्च, अलोकलक्षणाकाशाभ्युपगमे च धर्माधर्मौ लोकपरिमाणकारिणाववश्यं स्याताम्, अन्यथाऽऽकाशस्य निर्विशिष्टतया लोकोऽलोको वेति विशेषो न स्यात्, तथा चाविशिष्ट एवाकाशे गतिमतामात्मनां पुद्गलानाञ्च प्रतिघाताभावादनवस्थानेन सम्बन्धाभावात्सुखदुःखबन्धादिसंव्यवहारो न स्यात् स चायं धर्मोऽधर्मश्च प्रत्येकं
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy