________________
अथ स्थानमुक्तासरिका
पातयत्यात्मन आनन्दरसमिति पापमध: पतनकारित्वाद्वापापम्, तच्चाष्टादशविधमपि द्वयशीतिभेदमपि पुण्यानुबन्धिपापानुबन्धिभेदाद्विविधमप्यनन्तसत्त्वाश्रितत्वादनन्तमपि वाऽशुभसामान्यादेकम् । ननु कर्मैव न विद्यते प्रमाणाविषयत्वाद्गगनकुसुमवदिति चेन्न, यदिदं जगत्यात्मत्वेनाविशिष्टानामात्मनां देवासुरनरतिर्यगादिरूपं नरपतिरङ्कमनीषिमन्दमहर्द्धिदरिद्रादिरूपं वा वैचित्र्यं तन्न निर्हेतुकम्, नित्यभावाभावदोषप्रसङ्गात्, यदेव च निमित्तं तत्र तत्कर्मेत्युच्यते, न च दृष्ट एवेष्टानिष्टविषयप्राप्तिमयो हेतुर्भविष्यति, किमदृष्टकर्मकल्पनया, न हि दृष्टेऽदृष्टकल्पना न्याय्या, अतिप्रसङ्गादिति वाच्यम्, इष्टसाधनशब्दादिविषयसमेतयोर्द्वयोरेकस्य दुःखानुभूतेरपरस्य च सुखानुभूतेर्दर्शनात् एवं दुःखसाधनसमेतयोरपि फलवैचित्र्यदर्शनान्न तद्धेतुक एवासौ फलविशेष:, साधनानां विपर्यासात् यच्च तत्र विशिष्ट हेतुस्तदेव कर्म । एवं बालशरीरं शरीरान्तरपूर्वकम्, इन्द्रिया दिमत्त्वात्, युवशरीरवदित्यनुमानेन शरीरान्तरस्य कर्मणः सिद्धिः, न च जन्मान्तरातीतशरीरपूर्वकमेवेति शक्यते वक्तुम्, तस्यापान्तरालगतावसत्त्वेन तत्पूर्वकत्वानुपपत्तेः, न चाशरीरिणो नियतगर्भदेशस्थानप्राप्तिः, नियामकाभावात्, तथा च यच्छरीरपूर्वकं बालशरीरं तत्कर्ममयमिति, तच्च पौद्गलिकम्, आत्मनः पारतंत्र्यनिमित्तत्वात्, निगडादिवत्, न च क्रोधादिना व्यभिचारस्तन्निमित्तभूतस्य पौद्गलिकत्वात् । ननु भवतु कर्म, तच्च पापरूपमेव, न तु पुण्यरूपमपि परमप्रकर्षावस्थं पापं कर्मोत्कृष्टदुःखफलं जनयति तस्यैव च तरतमयोगाद्धानि क्रमेणापकर्षेण सुखकारणम्, यथाऽपथ्यस्य क्रमेण वृद्धौ रोगवृद्धिः क्रमेण च तस्यापकर्षे रोगशमनलक्षणं सुखं तथा प्रकृतेऽपि, एवं पापानभ्युपगमे पुण्यकर्मणोऽपचयोपचयभावेन सुखदुःखे चिन्तनीये, मैवम्, सुखदुःखे स्वानुरूपकारणके कार्यत्वाद्धटादिवत्, घटस्य ह्यनुरूपं कारणं परमाणवः, तथेहापि सुखस्य पुण्यं दुःखस्य पापमनुरूपं कारणमित्यनुमानात्तयोः सिद्धेः । न चानुरूपकारणत्वे साध्ये सुखदुःखयोरात्मपरिणामत्वात्पुण्यपापात्मकं कर्मापि तथा स्यात् यदि च तद्रूपवत्तर्हि नानुरूपं मूर्त्तत्वेन विलक्षणत्वादिति वाच्यम्, कार्यकारणयोः सर्वथा सारूप्यतायाः सर्वथा विरूपताया वाऽनिष्टत्वात्, सर्वथाऽनुरूपत्वे कार्यकारणयोर्भेद एव न स्यात् सर्वथा भेदे च घटस्य मृत्तिकैव कारणं न पाषाणादिरिति नियमो न भवेत्तस्मात्कार्यकारणयोस्तुल्यातुल्यरूपतैवेति । पुण्यपापकर्मणोर्बन्धकारणमाहास्त्रवेति, आस्रवन्ति प्रविशन्ति येन कर्माण्यात्मनीत्यास्रवः कर्मबन्धहेतुरिति भावः, स चेन्द्रियकषायाव्रतक्रियायोगरूपः क्रमेण पञ्चचतुःपञ्चपञ्चविंशतित्रिभेदः, तदेवं द्वित्त्वारिंशद्विधोऽपि द्रव्यभावभेदाद् द्विविधोऽप्यास्त्रवसामान्यादेकः ।
३२