SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३६० I अथ स्थानमुक्तासरिका नास्ति, अभिन्नज्ञानाभिधानाभावप्रसङ्गात्, सर्वथा वैलक्षण्ये चैकपरमाणुमन्तरेण सर्वेषामपरमाणुत्वप्रसङ्गात् तथाऽवयविनं धर्मिणञ्च विना न प्रतिनियतावयवधर्मव्यवस्था स्यात्, भेदाभेदविकल्पदूषणञ्च कथञ्चिद्वादाभ्युपगमेन निरवकाशमिति । जीवानामनन्तानन्तत्वेऽपि परिमितान यो वदति स मितवादी, 'उत्सन्नभव्यकं भविष्यति भुवनमित्यभ्युपगमात् । अङ्गुष्ठपर्वमात्रं श्यामाकतन्दुलमात्रं वा मितं वदति न त्वपरिमितमसंख्येयप्रदेशात्मकतया, अङ्गुलासंख्येयादारभ्य यावल्लोकमापूरयतीत्येवमनियतप्रमाणतया वा, अथवा मितं सप्तद्वीपसमुद्रात्मकतया लोकं वदत्यन्यथाभूतमपीति मितवादीति, तस्याप्यक्रियावादित्वं वस्तुतत्त्वनिषेधनादेवेति । निर्मितमीश्वरब्रह्मपुरुषादिना कृतं लोकं वदतीति निर्मितत्ववादी, प्रमाण व- बुद्धिमत्कारणकृतं भुवनं संस्थानवत्त्वान्, घटादिवदित्यादि, अक्रियावादित्वं चास्य 'न कदाचिदनीदृशं जगदिति वचनादकृत्रिमभुवनस्याकृत्रिमतानिषेधात्, नचेश्वरादिकर्तृकत्वं जगतोऽस्ति, कुलालादिकारकवैयर्थ्यप्रसङ्गात्, कुलालादिवच्चेश्वरादेर्बुद्धिमत्कारणस्यानीश्वरताप्रसङ्गात्, ईश्वरस्याशरीरतया कारणत्वासम्भवात् सशरीरत्वे तच्छरीरस्यापि सशरीरकर्त्रन्तरेणासम्भवात्तथाविधस्य कल्पनेऽनवस्थाप्रसङ्गाच्च । तथा सुखस्यैव वादी, सुखमेव ह्यनुशीलनीयं सुखार्थिना न तु दुःखरूपं तपोनियमब्रह्मचर्यादि, कारणानुरूपत्वात् कार्यस्य, न हि शुक्लैः तन्तुभिरारब्धो रक्तः पटो भवति, अपि तु शुक्ल एव, तथा सुखासेवनात्सुखमेवेति, अक्रियावादिता चास्य संयमतपसोः पारमार्थिकप्रशमसुखरूपयोर्दुः खत्वेनाभ्युपगमात् कारणानुरूपकार्याभ्युपगमस्य च विषयसुखादननुरूपस्य निर्वाणस्याभ्युपगमेन बाधितत्वादिति । समुच्छेदवादी - उत्पत्त्यनन्तरमेव निरन्वयविनाशितावादी क्षणिकवादीत्यर्थः नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाकारित्वासम्भवेनार्थक्रियाकारित्वलक्षणसत्त्वस्य तत्रासम्भवादिति, अक्रियावादित्वञ्चास्य क्षणिकत्वाभ्युपगमे परलोकाभावप्रसङ्गात् फलार्थिनाञ्च क्रियास्वप्रवृत्तेः, सकलक्रियासु प्रवर्त्तकस्यासंख्येयसमयसंभव्यनेकवर्णोल्लेखवतो विकल्पस्य प्रतिसमयक्षयित्वे एकाभिसन्धिप्रत्ययाभावात् सकलव्यवहारोच्छेदाच्च । एवं नित्यत्ववादी - नित्यो हि लोकः, आविर्भावतिरोभावमात्रत्वादुत्पादविनाशयोः असतोऽनुत्पादाच्छशविषाणस्येव, सतश्चाविनाशाद्धटवत्, न हि सर्वथा घटो विनष्टः, कपालाद्यवस्थाभिस्तस्य परिणतत्वात्, तासाञ्चापारमार्थिकत्वान्मृत्सामान्यस्यैव पारमार्थिकत्वात्तस्य चाविनष्टत्वादिति, अक्रियावादिता चास्यै - कान्तनित्यस्य स्थिरैकरूपतया सकलक्रियाविलोपाभ्युपगमादिति । एवं परलोकाभाववादी तु न विद्यते मोक्षो जन्मान्तरं वा, आत्मा हि नास्ति प्रत्यक्षादिप्रमाणाविषयत्वात्तदभावाच्च न
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy