SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ स्थानांगसूत्र ३५९ જ્ઞાનસંપન્ન દોષના ફળને અથવા પ્રાયશ્ચિતને જાણે છે. દર્શનસંપન્ન હું શુદ્ધ છું એ પ્રમાણે શ્રદ્ધા કરે છે. ચારિત્રસંપન્ન ફરી વાર તે અપરાધને કરતો નથી અને સારી રીતે આલોચના અને પ્રાયશ્ચિત્તનો નિર્વાહ છે. ક્ષાન્ત ક્ષમાવાળો હોય તે આચાર્ય વડે કઠોર કે કર્કશ વચનો વડે કહેવાયેલ પણ ગુસ્સો કરતો નથી. દાન્ત આપેલ પ્રાયશ્ચિત્તને કરવા માટે સમર્થ હોય છે. ૧૯૫ आलोचना च मदाभावे स्यात्तत्र श्रुतमदोऽन्तर्गत: स च प्रायो वादिनां भवतीति वादिविशेषानाह— एकत्वानेकत्वमितनिर्मितत्वसुखसमुच्छेदनित्यत्वपरलोकाभाववादिनोऽक्रियावादिनः ॥१९६॥ एकत्वेति, सकलपदार्थसार्थव्यापिन्यस्तीत्येवंरूपा क्रिया, सैव कुत्सिता अयथावस्तुविषयत्वादक्रिया तां वदन्तीत्येवंशीला अक्रियावादिन:, यथावस्थितं हि वस्त्वनेकान्तात्मकं तन्नास्त्येकान्तात्मकमेव चास्तीति प्रतिपत्तिमन्त इत्यर्थः एवंवादित्वाच्चैते परलोकसाधकक्रियामपि परमार्थतो न वदन्ति तन्मतवस्तुसत्त्वे हि परलोकसाधकक्रियाया अयोगादक्रियावादिन एव ते । तत्र एक एवात्मादिरर्थ इत्येवंवदतीत्येकत्ववादी, उक्तञ्च तन्मतानुसारिभिः 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥' इति, अपरस्त्वात्मैवास्ति नान्यदिति प्रतिपन्नः, तदुक्तं 'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्य'मित्यादि, तथा 'नित्यज्ञानविवर्त्तोऽयं क्षितितेजोजलादिकाः । आत्मा तदात्मकश्चेति सङ्गिरन्ते परे पुनः ॥ इति, शब्दाद्वैतवादी तु सर्वं शब्दात्मकमिदमित्येकत्वं प्रतिपन्नः, उक्तञ्च 'अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरं । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥' इति, अथवा सामान्यवादी सर्वमेवैकं प्रतिपद्यते सामान्यस्यैकत्वादित्येवमनेकधैकत्ववादी, अक्रियावादिता चैषां तदन्यस्याभावप्रतिपादनात् तत्तद्वादानां युक्त्यनुपपन्नानामभ्युपगमाच्च, एवमग्रेऽपि । तथा सत्यपि कथञ्चिदेकत्वे भावानां सर्वथाऽनेकत्वं वदतीत्यनेकत्ववादी, यथा परस्परविलक्षणा एव भावा:, तथैव प्रमीयमाणत्वात्, यथा रूपं रूपतयेति, अभेदे तु भावानां जीवाजीवबद्धमुक्तसुखितदुःखितादीनामेकत्वप्रसङ्गाद्दीक्षादिवैयर्थ्यमिति । किञ्च सामान्यमङ्गीकृत्यैकत्वं विवक्षितं परैः, सामान्यञ्च भेदेभ्यो भिन्नाभिन्नतया विचार्यमाणं न घटते, एवमवयवेभ्योऽवयवी धर्मेभ्यश्च धर्मीत्येवमनेकत्ववादी, अस्याप्यक्रियावादित्वं सामान्यादिरूपतयैकत्वे सत्यपि भावानां सामान्यादिनिषेधेन तन्निषेधनादिति, न च सामान्यं सर्वथा
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy