SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३५० अथ स्थानमुक्तासरिका विनयात् कर्मघातो भवति स च समुद्धाते विशिष्टतर इति तत्प्ररूपयतिवेदनाकषायमारणान्तिकवैकुर्विकतैजसाहारककेवलिभेदः समुद्धातः ॥१९०॥ वेदनेति, हननं घातः, समित्येकीभावे, उदिति प्राबल्ये, एकीभावेन प्राबल्येन च घात:निर्जरा समुद्धातः, आत्मनो वेदनाकषायाद्यनुभवपरिणामेनैकीभावगमनम्, यदा ह्यात्मा वेदनीयाद्यनुभवज्ञानपरिणतो भवति तदा नान्यज्ञानपरिणत इति, प्राबल्येन कथं घातः ? यस्मादिनीयादिसमुद्धातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह संश्लिष्टान् शातयतीत्यर्थः । स च वेदनादिभेदेन सप्तधा भवति यथा-असद्वेद्यकर्माश्रयो वेदनासमुद्धात, कषायाख्यचारित्रमोहनीयकर्माश्रयः कषायसमुद्धातः, अन्तर्मुहूर्तशेषायुष्ककर्माश्रयो मारणान्तिकसमुद्धातः, वैकुर्विकतैजसाहारकमुद्धाताः शरीरनामकर्माश्रयाः केवलिसमुद्धातस्तु सदसवेद्यशुभाशुभनामोच्चनीचैर्गोत्रकर्माश्रयः, तत्र वेदनासमुद्धातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशाटं करोति, कषायसमुद्धातसमुद्धतः कषायपुद्गलशाटं मारणान्तिकसमुद्धातसमुद्धत आयुष्यकर्मपुद्गलघातं वैकुर्विकसमुद्धातसमुद्धतस्तु जीवप्रदेशान् शरीराबहिनिष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च संख्येयानि योजनानि दण्ड निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् नाशयति, एवं तैजसाहारकमसमुद्धातावपि । केवलिसमुद्घातेन समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् प्राग्बद्धान् शातयति, एवं तैजसाहारकसमुद्धातावपि । केवलिसमुद्धातेन समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति । इहान्त्योऽष्टसामयिकः शेषास्त्वसंख्यातसामयिकाः । मनुष्याणामेव सप्त समुद्धाता भवन्ति ॥१९०॥ - વિનયથી કર્મનો ઘાત થાય છે અને તે કર્મનો ઘાત સમુદ્ધાતમાં વિશિષ્ટતર થાય છે માટે સમુદ્યતનું પ્રરૂપણ કરે છે. સમુદ્ધાત - હણવું તે ઘાત. સમ્ = એકીભાવમાં ઉદ્ = પ્રાબલ્યુ. એકીભાવ વડે અને પ્રબળતાથી ઘાત - નિર્જરા તે સમુદ્યાત. प्रश्न :- नोनी साथे भेडामा ? ઉત્તર :- આત્માનો વેદના, કષાય આદિના અનુભવરૂપ પરિણામ અર્થાત્ જ્યારે આત્મા વેદના આદિના અનુભવરૂપ જ્ઞાન વડે પરિણત થાય છે ત્યારે અન્ય જ્ઞાનથી પરિણત હોતો નથી. આ રીતે આત્માનું વેદના આદિ સાથે એકીભાવ થવું. प्रश्न :- प्रबलताथी घात वा त ?
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy