SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ स्थानांगसूत्र ३३५ तथा हि-क्वचित् संखड्यामकालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ, ततो मुहूर्त्तान्तरे रत्नाधिकेनोक्तम्-व्रजामः संखड्यामिदानीं भोजनकालो यतस्तत्रेति, लघुर्भणति प्रतिषिद्धोऽहं न पुनर्व्रजामि, ततोऽसौ निवृत्त्याचार्यायेदमालोचयति यथा - अयं दीनकरुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशत्येषणां प्रेरयतीत्यादि, ततो रत्नाधिकमाचार्यो भणति-साधो ! भवानेवं करोति ? स आह-नैवमित्यादी, पूर्ववत् प्रस्तारः । एवमदत्तादानस्य वादं वदति, अत्र भावना-एकत्र गेहे भिक्षा लब्धा सा अवमेन गृहीता यावदसौ भाजनं संमाष्टि तावद्रनाधिकेन संखड्यां मोदका लब्धास्तानवमो दृष्ट्वा निवृत्त्याचार्यस्यालोचयति-यथाऽनेनादत्ता मोदका गृहीता इत्यादि, प्रस्तारः प्राग्वदिति । एवमविरतिरब्रह्म तद्वादं वार्त्ता वा, अथवा न विद्यते विरतिर्यस्यास्साऽविरतिः स्त्री, तद्वादं तदासेवाभणनरूपां वा वार्तां वदति, तथाहि - अवमो भावयति एष रत्नाधिकतया मां स्खलितादिषु प्रेरयति, ततो रोषादभ्याख्याति स ‘ज्येष्ठार्येणाकार्यं सद्य आर्यागृहे कृतमद्य । उपजीवितश्च भदन्त ! मयाऽपि संस्पृष्टकल्पोऽत्र' ॥ इति, प्रस्तारभावना प्राग्वत् । अपुरुषो नपुंसक इत्येवं वादं वार्तां वा वदति, भावनात्र - आचार्यं प्रत्याह-अयं साधुर्नपुंसक इति, आचार्य आह- कथं जानासि ? स आह - एतन्निजकैरहमुक्तःकिं भवतां कल्पते प्रव्राजयितुं नपुंसकमिति, ममापि किञ्चित्तल्लिङ्गदर्शनाच्छंका अस्तीति, प्रस्तारः प्राग्वत् । तथा दासवादं वदति, भावना - कश्चिदाह - दासोऽयम्, आचार्य आह- कथम् ? स आह-देहाकाराः कथयन्ति दासत्वमस्येति, प्रस्तारः प्राग्वत् एवं षड्विधान् प्रस्तारान् मासगुर्वादिपाराञ्चिकानभ्युपगमत आत्मनि प्रस्तुतान् विधायाभ्याख्यानदायकसाधुरभ्याख्येयार्थस्यासद्भूततयाऽभ्याख्यानसमर्थनं कर्तुमशक्नुवन् स्वयमपि प्राणातिपातादिकर्तुरेव स्थानं प्राप्तः प्राणातिपातादिकारीव दण्डनीयः स्यादिति ॥ १७९ ॥ આવા અકલ્પ્સ - અવયવોને વિષે પ્રાયશ્ચિત્તોનો પ્રસ્તાર થાય છે. માટે તેને કહે છે. સાધુના આચારની વિશુદ્ધિ માટે છ પ્રસ્તારો - પ્રાયશ્ચિત્તની રચનાના વિશેષો કહેલા છે. તે खा प्रभाशे - (૧) પ્રાણાતિપાત નો વાદ - વાર્તા અથવા વાચાને બોલતા સાધુને વિષે પ્રાયશ્ચિત્તનો પ્રસ્તાર થાય છે. જેમ બીજા મનુષ્યો વડે નાશ પામેલ દેડકા ઉપર મૂકેલ પગવાળા સાધુને જોઇને ક્ષુલ્લક (नानो-लघु) साधु पोल्यो - हे साधु ! तमारा वडे हेडडी भरायो ? साधुखे ऽधुं - नथी भरायो. (પ્રથમથી જ મરાયેલ છે) ક્ષુલ્લક બોલ્યો - તમારે વિષે બીજું વ્રત પણ નથી ? ત્યાર બાદ ક્ષુલ્લક ભિક્ષાચર્યાથી નિવૃત્ત થઇને આચાર્ય પાસે આવે છે. આ એક પ્રાયશ્ચિત્તનું સ્થાન છે. ત્યાર બાદ સાધુથી દેડકો મરાયો છે આ પ્રાયશ્ચિત્તાંતર છે. ત્યાર પછી અભ્યાખ્યાત (દોષ અપાયેલ) સાધુને
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy