SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३२८ अथ स्थानमुक्तासरिका कायोत्सर्गनिषदनशयनस्थानानां स्थण्डिलानां मार्गस्य विहारक्षेत्रस्य च निरूपणा, कालप्रत्युपेक्षणा उचितानुष्ठानकरणार्थं कालविशेषस्य पर्यालोचना, भावप्रत्युपेक्षा धर्मजागरिकादिरूपा, तत्र प्रत्युपेक्षायां प्रमादः शैथिल्यमाज्ञातिक्रमो वा प्रत्युपेक्षाप्रमादः, अनेन च प्रमार्जनाभिक्षाचर्यादिष्विच्छाकारमिथ्याकारादिषु च दशविधसामाचारीरूपव्यापारेषु यः प्रमादोऽसावुपलक्षितः, तस्यापि सामाचारीगतत्वेनैतत्प्रमादलक्षणाव्यभिचारित्वात् । आरभटावितथकरणरूपा, अथवा त्वरितं सर्वमारभमाणस्य, अथवाऽर्धप्रत्युपेक्षित एवैकत्र यदन्यान्यवस्त्रग्रहणं साऽऽरभटा, सा च वर्जनीया सदोषत्वादेवं सर्वत्र । यत्र वस्त्रस्य मध्यप्रदेशे संवलिताः कोणा भवन्ति यत्र वा प्रत्युपेक्षणीयोपधिवेण्टिकायामेवोपविश्य प्रत्युपेक्षते सा संमर्दा । मोसली प्रत्युपेक्ष्यमाणवस्त्रभागेन तिर्यगूर्ध्वमधो वा घट्टनरूपा । प्रस्फोटना प्रकर्षेण धूननं रेणुगुण्ठितस्येव वस्त्रस्येति, विक्षिप्ता-वस्त्र प्रत्युपेक्ष्य ततोऽन्यत्र यवनिकादौ यत्प्रक्षिपति वस्त्राञ्चलादीनां वा यदूर्ध्वक्षेपणं सा । वेदिका पञ्च प्रकारा तत्रोर्ध्ववेदिका यत्र जानुनोरुपरि हस्तौ कृत्वा प्रत्युपेक्षते, अधोवेदिका जान्वोरधो हस्तौ निवेश्य, तिर्यग्वेदिका जान्वोः पार्श्वतो हस्तौ नीत्वा, द्विधा वेदिका बाह्वोरन्तरे द्वे अपि जानुनी कृत्वा, एकतो वेदिका एकं जानु बाह्वोरन्तरे कृत्वा, इति । उक्तविपरीतप्रत्युपेक्षणमाहाप्रमादेति, वस्त्रमात्मा वा न नर्तितं-न नृत्यवदिव कृतं यत्र तदनर्तितम्, तत्र वस्त्रं नर्तयति आत्मानञ्च, वस्त्रं न नर्तयत्यात्मानन्तु नर्तयति, वस्त्रं नर्त्तयति नात्मानम्, न वस्त्रं नर्तयति न वाऽऽत्मानमिति चत्वारो भङ्गाः । वस्त्रं शरीरं वा न वलितं कृतं यत्र तदवलितमत्रापि चत्वारो भङ्गाः । न विद्यतेऽनुबन्धः सातत्यप्रस्फोटकादीनां यत्रासावननु-बन्धिनी । न विद्यते उक्तलक्षणा मोसली यत्रासावमोसली । वस्त्रे प्रसारिते सति चक्षुषा निरूप्य तदर्वाग्भागं तत्परावर्त्य निरूप्य च त्रयः प्रस्फोटकाः कर्तव्याः, तथा तत्परावृत्त्य चक्षुषा निरूप्य च पुनरपरे त्रयः प्रस्फोटका एवमेते षट्, तथा नवखोटकाः ते च त्रयस्त्रयः प्रमार्जनानां क्रमेण त्रयेण त्रयेणान्तरिताः कार्या इति पदद्वयेनापि पञ्चमी अप्रमादप्रत्युपेक्षणा, तयोः सदृशत्वात् । तथा पाणे:-हस्तस्योपरि प्राणानां-प्राणिनां कुन्थ्वादीनां विशोधना-प्रमार्जना प्रत्युपेक्ष्यमाणवस्त्रेणैव नवैव वाराः कार्या इति ॥१७५॥ श्रममाहिने स६७५योगना मभावना ॥२९॥३५ ७ प्रभाह छ. (१) ३ (२) निद्रा (3) विषय (४) षाय (५) ॥२ (६) प्रतिरपना त नि३५५५ ४२१॥ योग्य छ. तमा भध-३ આદિ સ્પષ્ટ હોવાથી છઠ્ઠા પ્રત્યુપેક્ષા પ્રમાદનું નિરૂપણ કરે છે. સારી રીતે તપાસવું તે પ્રત્યુપેક્ષા. અને તે પ્રત્યુપેક્ષા દ્રવ્ય, ક્ષેત્ર, કાળ અને ભાવના ભેદથી ચાર પ્રકારની છે. તેમાં
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy