________________
२८६
अथ स्थानमुक्तासरिका
तथा
क्षान्तिमुक्तिमार्दवार्जवलाघवानि सत्यतपस्संयमत्यागब्रह्मचर्यवासा उत्क्षिप्तनिक्षिप्तान्तप्रान्तरूक्षचरकत्वानि अज्ञातान्नग्लानकमौनचरकत्वसंसृष्टकल्पिकत्वतज्जातसंसृष्टकल्पिकत्वानि औपनिधिकशुद्धैषणिकसंख्यादत्तिकदृष्टलाभिकपृष्टलाभिकत्वानि आचाम्लिकनिर्विकृतिकपुरिमद्धिकपरिमितपिण्डपातिकभिन्नपिण्डपातिकत्वानि अरसविरसान्तप्रान्तरूक्षाहाराणि च श्रमणानां नित्यं कीर्तितानि ॥१४६॥
क्षान्तीति, क्षान्त्यादयः क्रोधलोभमानमायानिग्रहाः, लाघवमुपकरणतो गौरवत्रयत्यागो वा । सत्यं चतुर्विधमनलीकम्, तदुक्तम् 'अविसंवादनयोगः कायमनोवागजिह्मता चैव । सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्रे'ति । तपो द्वादशविधम्, संयमो हिंसादिनिवृत्तिः, त्यागः संविग्नैकसाम्भोगिकानां भक्तादिदानम्, ब्रह्मचर्य मैथुनविरमणे वास इत्येष पूर्वोक्तैः सह दशविधः श्रमणधर्मः । अथ वृत्तिसंक्षेपाभिधानस्य बाह्यतपोविशेषस्य भेदा उच्यन्ते, उत्क्षिप्तं स्वप्रयोजनाय पाकभाजनादुद्धृतं तदर्थमभिग्रहविशेषाच्चरति तद्गवेषणाय गच्छतीत्युत्क्षिप्तचरकस्तस्य भाव उत्क्षिप्तचरकत्वमेवमग्रेऽपि, निक्षिप्तमनुद्धत्तं चरतीति तथा, अन्ते भवमान्तं भुक्तावशेषं वल्लादि, प्रकृष्टमान्तं प्रान्तं तदेव पर्युषितम्, रूक्षं निस्नेहमिति, तत्राद्यौ भावाभिग्रहावितरे द्रव्याभिग्रहाः । अज्ञात:-अनुपदर्शितस्वाजन्यद्धिमत्प्रवाजितादिभावः सन् भिक्षार्थमटतीत्यज्ञातचरकः, अन्नग्लानकचरकः, अन्नग्लानको दोषान्नभुक्, एवंविधः सन् चरति, अन्नग्लायकचरकः, अन्यग्लायकचरको वेति क्वचिद् दृश्यते, अन्नं विना ग्लायकः समुत्पन्नवेदनादिकारण एवेत्यर्थः, अन्यस्मै वा ग्लायकाय भोजनार्थं चरतीति तथा । मौनेन व्रतेन चरतीति मौनचरकः, संसृष्टेन खरण्टितेन हस्तभाजनादिना दीयमानं कल्पिकं कल्पवत् कल्पनीयमुचितमभिग्रहविशेषाद्भक्तादि यस्य स संसृष्टकल्पिकः, तज्जातेन-देयद्रव्यप्रकारेण यत्संसृष्टं हस्तादि तेन दीयमानं कल्पिकं यस्य सः । उपनिधीयत इत्युपनिधिः प्रत्यासन्नं यद्यथा कथञ्चिदानीतं तेन चरति तद्ग्रहणायेत्यौपनिधिकः । शुद्धा अनतिचारा एषणा शङ्कितादिदोषवर्जनरूपा तया चरतीति शुद्धैषणिकः । संख्याप्रधानाः परिमिता एव दत्तयः सकृद्भक्तादिक्षेपलक्षणा ग्राह्याः यस्य सः संख्यादत्तिकः । दृष्टस्यैव भक्तादेर्लाभस्तेन चरतीति तथा । पृष्टस्यैव साधो दीयते त इत्येवंविधेन लाभेन यश्चरति स पृष्टलाभिकः । आचाम्लेन समयप्रसिद्धेन यश्चरति स तथा । घृतादिविकृतिभ्यो यो निर्गतः स निर्विकृतिकः । पुरिमार्द्ध पूर्वाह्नलक्षणं प्रत्याख्यानविशेषो यस्य स तथा । परिमितो द्रव्यादिपरिमाणतः पिण्डपातो