SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ स्थानांगसूत्र पर्यनुयोगस्य सम्भवात्, तथा चास्त्यवयविद्रव्यम्, अव्यभिचारितया तथैव प्रतिभासमानत्वात्, अवयववत्, नीलवद्वा, तथा प्रतिभासस्यानुभूयमानत्वादेव न हेतुरसिद्धः, निखिलवस्तूनां व्यवस्थायाः प्रतिभासाधीनत्वान्नानैकान्तिकत्वविरुद्धत्वे, अन्यथा न किञ्चिद्वस्तु सिद्धयेत् । ननु नास्त्यात्माऽनुपलभ्यमानत्वात् न ह्यसौ प्रत्यक्षेणोपलभ्यते, अतीन्द्रियत्वात्, नाप्यनुमानेन, लिङ्गलिङ्गिनोः साक्षात् सम्बन्धादर्शनात्, न वाऽऽगमवेद्यः आगमानामन्योऽन्यं विसंवादादिति चेन्न, विकल्पानुपपत्तेः, अनुपलभ्यमानत्वं किमेकपुरुषापेक्षया, सकलपुरुषापेक्षया वा, नाद्यः, सत्यपि वस्तुनि तस्य सम्भवात् न ह्येकस्य कस्यचिद्घटादिग्राहकप्रमाणाप्रवृत्तौ सर्वत्र सर्वदा तदभावो निर्णेतुं युज्यते, नापि प्रमाणनिवृत्तौ प्रमेयं निवर्त्तते, प्रमाणस्य प्रमेयकार्यत्वेन कार्याभावे कारणाभावस्यादृष्टत्वात् । न द्वितीयः पक्षः, असिद्धेः, सकलपुरुषाश्रितानुपलम्भस्यासर्वज्ञदुर्ज्ञेयत्वात् । किञ्च विद्यते आत्मा, प्रत्यक्षादिभिरुपलभ्यमानत्वात्, घटादिवदित्यनुमानेन तत्सिद्धिः, अस्मदादिप्रत्यक्षेण ह्यात्मा गम्यते, ज्ञानाभिन्नत्वात्तस्य, तदभिन्नत्वञ्च ज्ञानस्य तद्धर्मत्वात्, ज्ञानन्तु स्वसंविदितरूपम्, नीलज्ञानमुत्पन्नमासीदिति स्मृतेः न ह्यस्वसंविदिते स्मृतिरुदेति, अन्यथा पुरुषान्तरज्ञानस्यापि स्मृतिविषयताप्रसङ्गात्, तस्मात्तदव्यतिरिक्तज्ञानगुणप्रत्यक्षत्वे गुण्यपि प्रत्यक्ष एव, रूपगुणप्रत्यक्षतया घटादिगुणिप्रत्यक्षवत् । शरीरमिदं विद्यमानकर्तृकम्, भोग्यत्वादोदनवदित्यनुमानगम्योऽप्यात्मा, न चौदनकर्तृवन्मूर्त्त आत्मा स्यादिति वाच्यम्, संसारिणो मूर्त्तत्वेनाभ्युपगमात् । 'एगे आया' इत्यागमगम्योऽप्यात्मा, न चायमागम आगमान्तरैर्विसंवादीति वक्तव्यम्, अस्य सुनिश्चिताऽऽप्तप्रणीतत्वात् । सोऽयमात्मा सप्रदेशः, निरवयवत्वे हस्ताद्यवयवानामेकत्वप्रसङ्गः प्रत्यवयवं स्पर्शाद्यनुपलब्धिप्रसङ्गश्च स्यात्, एवश्च द्रव्यार्थतया एक आत्मेति, एक आत्मा कथञ्चिदिति वा व्यवस्थितम् । प्रतिक्षणं सम्भवदपरापरकालकृतकुमारतरुणनरनारकत्वादिपर्यायैरुत्पादविनाशयोगेऽपि द्रव्यार्थतयास्यैकत्वात्, कालकृतपर्यायैरुत्पादविनाशेऽपि सर्वथा न नाशः स्वपरपर्यायरूपानन्तधर्मात्मकत्वाद्वस्तुनः । प्रतिक्षणं सर्वथा विनाशे हि 'प्रतिक्षणं क्षयिणो भावा:' इति वचनात् क्षणभङ्गविज्ञानं न स्यात्, असंख्यातसमयैरेव वाक्यार्थग्रहणपरिणामात्, एकैकमप्यक्षरं हि पदसत्कं संख्यातीतसमयसम्भूतं संख्यातानि चाक्षराणि पदं, पदसंघातञ्च वाक्यम्, तदर्थग्रहणपरिणामाच्च सर्वं क्षणभङ्गुरमिति विज्ञानं भवेत्, तच्च न समयविनश्वरस्य सम्भवति, तस्मादात्मोत्पादव्ययध्रौव्यात्मकः, स्थिररूपापेक्षया नित्यो नित्यत्वाच्चैकः, उत्पादव्ययापेक्षया त्वनित्यत्वादनेक २१
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy