________________
अथ स्थानमुक्तासरिका
अथ समुत्पन्नकेवलज्ञानेन सकलपदार्थेष्वव्याहतवचनतयाऽऽप्रतीताप्तेन तीर्थंकरनामकर्मादिपरमपुण्यप्राग्भारेणाष्टमहाप्रातिहार्यनिखिलसम्पत्समन्वितेन श्रीमहावीरेणैकत्वादिप्रकारेण समस्तवस्तुविस्तारव्याप्त्याऽऽख्यातमात्मादिवस्तुजातं दिशा प्रदर्शयितुकाम एकत्वेनात्मादि
२०
व्यापनप्रकारमादर्शयति—
स्यादेक आत्मा, उपयोगलक्षणत्वाद्द्रव्यार्थत्वाद्वा ॥२॥
स्यादेक इति, जीवः कथञ्चिदेक इत्यर्थः, अतति सततं गच्छति जानातीत्यात्मा, सिद्धावस्थायां संसार्यवस्थायाञ्चोपयोगभावेनानवरतमवबोधस्य सद्भावात्, सततमुपयोगलक्षणावबोधाभावे हि जीवोऽजीवः स्यात्, यस्त्वजीवः स न जीवभावमापद्यते, अन्यथाऽऽकाशादीनामपि जीवत्वं प्रसज्येत, एवञ्च जीवानाद्यनन्तत्वाभ्युपगमाभावप्रसङ्गः । अथवा स्वकीयान् ज्ञानादिपर्यायान्निरन्तरमुपयातीत्यात्मा, न च स्वस्वपर्यायेषु गगनादीनामपि गमनादात्मत्वप्रसङ्ग इति वाच्यम्, उपयोगलक्षणत्वात्, उपयोगो लक्षणमसाधारणो धर्मः प्रवृत्ति- . निमित्तं यस्यात्मपदस्य स उपभोगलक्षणस्तस्य भावस्तत्त्वम्, तस्मादित्यर्थः, सततं पर्यायगमनं हि व्युत्पत्तिनिमित्तमात्रम्, न तु प्रवृत्तिनिमित्तं स चोपयोग एव सर्वात्मसाधारणोऽतस्तदपेक्षयाऽऽत्मा एक इति भावः, एकात्मद्रव्यापेक्षयाऽप्येकानेकत्वं प्रदर्शयति-द्रव्यार्थत्वाद्वेति, अवयविद्रव्यत्वादित्यर्थः, प्रदेशार्थता चावयवलक्षणार्थता, तदपेक्षया त्वनेकत्वं तस्यासंख्येयप्रदेशात्मकत्वात् । ननु नास्त्यवयविद्रव्यं विकल्पद्वयेन तस्याघटमानत्वात्, खरविषाणवत्, अवयविद्रव्यं हि यद्यवयवेभ्योऽभिन्नं तदाऽवयविवदवयवानामप्येकत्वं स्यादवयववद्वाऽवयविद्रव्यमनेकं भवेत्, अन्यथा भेद एव स्यात्, विरुद्धधर्माध्यासस्य भेदनिबन्धनत्वात् । यदि चावयवेभ्यस्तद्भिन्नं तर्ह्यवयवेषु किं प्रत्येकं सर्वात्मना वा समवैति, देशतो वा, यदि सर्वात्मना तर्ह्यवयवी नाना भवेत्, प्रत्येकं पर्याप्तत्वात्, यदि देशैः समवेति तदा यैर्देशैरवयवेषु तद्वर्त्तते तेष्वपि देशेषु तथैव विकल्पप्रसङ्गेन तद्दोषतादवस्थ्यात्, अत्रोच्यते, एकान्तेन भेदोऽभेदो वा तर्योर्नाभ्युपगम्यते किन्त्ववयवा एव तथाविधैकपरिणामादवयविद्रव्यतया व्यपदिश्यन्ते, त एव च तथाविधविचित्रपरिणामापेक्षया अवयवा इति । अवयव्यभावे त्वेते घटावयवा एते पटावयवा इत्येवमसङ्कीर्णव्यवस्थाया असम्भवः प्रसज्येत । न च तयोर्भेदः स्याद्विरुद्धर्माध्यासादिति वक्तव्यम्, एकस्यैव प्रत्यक्षसंवेदनस्य त्वया परमार्थापेक्षया भ्रान्तत्वेन संव्यवहारापेक्षया त्वभ्रान्तत्वेनाभ्युपगमात्, अत्रापि यदि भ्रान्तं तत्तर्हि कथमभ्रान्तमिति