SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ अथ स्थानमुक्तासरिका I महानसमिति प्रथमः, साध्याभावे साधनस्यावश्यमभावो यथा तत्रैवाग्न्यभावे धूमो न भवति यथा जलाशय इति द्वितीयः । यद्वा आख्यानकरूपं ज्ञातं तच्च चरितकल्पितभेदाद्विधा, तत्र चरितं यथा निदानं दुःखाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति देशनीयम्, यथा पाण्डुपत्रेण किशलयानां देशितं तथाहि 'जह तुब्भे तह अम्हे तुब्भेऽविय होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुयपत्तं किसलयाणं ॥' इति, अथवा उपमानमात्रं ज्ञातम्, सुकुमारः करः किसलयमिवेत्यादिवत् । यद्वा उपपत्तिमात्रं ज्ञातं ज्ञातहेतुत्वात्, कस्माद्यवा: क्रीयन्ते ? यस्मान्मुधा न लभ्यन्त इत्यादिवदिति, एवमनेकधा साध्यप्रत्यायनस्वरूपं ज्ञातमुपाधिभेदाच्चतुर्विधमाह आहरणेति, यत्र समुदित एव दार्शन्तिकोऽर्थ उपनीयते यथा पापं दुःखाय ब्रह्मदत्तस्येवेति तदाहरणम् । यत्र दृष्टान्तार्थदेशेनैव दान्तिकार्थस्योपनयनं क्रियते तत् तद्देशोदाहरणम्, यथा चन्द्र इव मुखमस्या इति, अत्र हि चन्द्रे सौम्यत्वलक्षणेनैव देशेन मुखस्योपनयनम्, नानिष्टेन नयननासावर्जितत्वकलङ्कत्वादिनेति । यत्साध्यविकलत्वादि-दोषदुष्टं तत् तद्दोषोदाहरणम्, यथा नित्यः शब्दोऽमूर्त्तत्वात् घटवदिति, अत्र साध्य साधनवैकल्यं नाम दृष्टान्तदोषः । यच्चासभ्यादिवचनरूपं तदपि तद्दोष:, यथा सर्वथा - ऽहमसत्यं परिहरामि गुरुमस्तककर्त्तनवदिति । यद्वा साध्यसिद्धिं कुर्वदपि दोषान्तरमुपनयति तदपि तदेव, यथा सत्यं धर्ममिच्छन्ति लौकिकमुनयोऽपि वरं कूपशताद्वापी वरं वापीशतात् क्रतुः । वरं क्रतुशतात् पुत्रः सत्यं पुत्रशताद्वर'मिति वचनवक्तृनारदवदिति, अनेन च श्रोतुः पुत्रक्रतुप्रभृतिषु प्रायः संसारकारणेषु धर्मप्रतीतिराहितेति । यथा वा बुद्धिमता केनापि कृतमिदं जगत् सन्निवेशविशेषवत्त्वात्, घटवत् स चेश्वर इति अनेन हि स बुद्धिमान् कुम्भकारतुल्योऽनीश्वरः सिद्ध्यतीति ईश्वरश्च स विवक्षित इति । वादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनयः क्रियते, पर्यनुयोगोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः, उत्तररूपमुपपत्तिमात्रमपि ज्ञातभेदः, ज्ञातहेतुत्वादीति । यथाऽकर्त्ता आत्मा अमूर्त्तत्वादाकाशवदित्युक्ते अन्य आह- आकाशवदेवाभोक्तेत्यपि प्राप्तमनिष्टञ्चैतदिति । यथाव मांसभक्षणमदुष्टं प्राण्यङ्गत्वादोदनादिवत्, अत्राहान्य:- ओदनादिवदेव स्वपुत्रादिमांसभक्षणमप्यदुष्टमिति । यथा वा त्यक्तसङ्गा वस्त्रपात्रादिसङ्ग्रहं न कुर्वन्ति ऋषभादिवत्, ह कुण्डिकाद्यपि ते न गृह्णन्ति तद्वदेवेति, तथा कस्मात् कर्म कुरुषे यस्माद्धनार्थीति । इह प्रथमं ज्ञातं सर्वसाधर्म्यरूपं द्वितीयं देशसाधर्म्यरूपं तृतीयं सदोषं चतुर्थञ्च प्रतिवाद्युत्तररूपमित्येषां स्वरूपविभागः ॥१३०॥ २६२
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy