SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ अथ स्थानमुक्तासरिका प्रकृतिबन्धहेतुत्वादेवं प्रदेशबन्धनोपक्रमोऽपि, स्थितिबन्धनोपक्रमोऽनुभावबन्धनोपक्रमश्च परिणाम एव कषायरूप:, तयोः कषायहेतुकत्वात् । एवमुदीरणोपक्रमणाविपरिणामना अपि चतुर्विधाः प्रकृत्यादिभिः, मूलोत्तरप्रकृतीनां दलिकं वीर्यविशेषेणाकृष्योदये यद्दीयते सा प्रकृत्युदीरणा, वीर्यादेव च प्राप्तोदयया स्थित्या सहाप्राप्तोदया या स्थितिरनुभूयते सा स्थित्युदीरणा, तथैव प्राप्तोदयेन रसेन सहाप्राप्तोदयो रसो यो वेद्यते साऽनुभागोदीरणा, तथा प्राप्तोदयैर्नियतपरिणामकर्मप्रदेशैः सहाप्राप्तोदयानां नियतपरिणामानां कर्मप्रदेशानां यद्वेदनं सा प्रदेशोदीरणा, इहापि कषाययोगरूपः परिणाम उपक्रमार्थः । प्रकृत्युपशमनोपक्रमादयश्चत्वारोऽपि सामान्योपशमनोपक्रमानुसारेण प्रकृतिविपरिणामनोपक्रमादयोऽपि सामान्यविपरिणामनोपक्रमलक्षणानुसारेण चावगन्तव्याः, उपक्रमस्तु प्रकृत्यादित्वेन पुगलानां परिणमनसमर्थं जीववीर्यमिति । अल्पं स्तोकं बहु प्रभूतं तद्भावोऽल्पबहुत्वम्, प्रकृतिविषयमल्पबहुत्वं बन्धाद्यपेक्षया, यथा सर्वस्तोकप्रकृतिबन्धक उपशान्तमोहादिः, एकविधबन्धकत्वात्, बहुतरबन्धक उपशमकादिसूक्ष्मसम्परायः षड्विधबन्धकत्वात् बहुतरबन्धकः सप्तविधबन्धकस्ततोऽष्टविधबन्धक इति । स्थितिविषयमल्पबहुत्वं यथा संयतस्य जघन्यः स्थितिबन्धः सर्वस्तोकः, एकेन्द्रियबादरपर्याप्तकस्य जघन्यः स्थितिबन्धोऽसंख्यातगुण इत्यादि । अनुभागं प्रत्यल्पबहुत्वं यथा अनन्तगुणवृद्धिस्थानानि सर्वस्तोकानि, असंख्येयगुणवृद्धिस्थानान्यसंख्येयगुणानि यावदनन्तभागवृद्धिस्थानान्यसंख्येयगुणानीत्यादि, प्रदेशाल्पबहुत्वं यथाऽष्टविधबन्धकस्याऽऽयुर्भागः स्तोको नामगोत्रयोस्तुल्यो विशेषाधिको ज्ञानदर्शनावरणान्तरायाणां तुल्यो विशेषाधिको मोहस्य विशेषाधिको वेदनीयस्य विशेषाधिक इत्यादि । जीवो यां प्रकृति बघ्नाति तदनुभावेन प्रकृत्यन्तरस्थं दलिकं वीर्यविशेषेण यत्परिणमति स संक्रमः, तत्र प्रकृतिसंक्रमः सामान्यलक्षणावगम्य एव, मूलोत्तरप्रकृतीनां स्थितेर्यदुत्कर्षणमपकर्षणं वा प्रकृत्यन्तरस्थितौ वा नयनं स स्थितिसंक्रमः । अनुभावसंक्रमोऽप्येवमेव । यत्कर्मद्रव्यमन्यप्रकृतिस्वभावेन परिणम्यते स प्रदेशसंक्रमः । उद्वर्त्तनापवर्त्तनावर्जितानां शेषकरणायोग्यत्वेन कर्मणोऽवस्थापनं निधत्तम्, कर्मणः सर्वकरणायोग्यत्वेनावस्थापनं निकाचितम् अथवा पूर्वबद्धस्य कर्मणस्तप्तसंमीलितलोहशलाकासम्बन्धसमानं निधत्तं तप्तमिलितसंकुट्टितलोहशलाकासम्बन्धसमानं निकाचितम्, उभयत्रापि प्रकृत्यादिविशेषः सामान्यलक्षणानुसारेण ज्ञेय इति ॥ १११ ॥ २३० दुर्मनी साम्यताथी उहे छे... यार प्रहारे बंध छे - (१) प्रकृति बंध (२) स्थिति बंध (3) रस बंध (४) प्रदेश बंध.
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy